摩诃婆罗多 · 章 5.101
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.101.1
अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् ।
विक्रमे गमने भारे नैषामस्ति परिश्रमः ॥ ५.१०१.१ ॥
此界属于金翅鸟、飞禽与食蛇者。在勇力、飞行与负重之中,他们毫无疲劳。
5.101.2
वैनतेयसुतैः सूत पङ्भिस्ततमिदं कुलम् ।
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ॥ ५.१०१.२ ॥
御者啊,此族由毗娜塔之子的诸子成行繁衍——苏穆卡、苏那曼、苏涅特罗与苏伐尔查斯。
5.101.3
सुरुचा पक्षिराजेन सुबलेन च मातले ।
वर्धितानि प्रसृत्या वै विनाताकुलकर्तृभिः ॥ ५.१०१.३ ॥
摩多利啊,由苏鲁吉、鸟王、苏跋罗及普拉苏提,以及毗娜塔族的创立者们,这些得以繁盛。
5.101.4
पक्षिराजाभिजात्यानां सहस्राणि शतानि च ।
कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ॥ ५.१०१.४ ॥
鸟王的高贵族类有千百之数;随后在迦叶波的族系中诞生,增益吉祥者。
5.101.5
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ।
सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ॥ ५.१०१.५ ॥
这些都具足吉祥,都具有室利吠差(Śrīvatsa)之相;都渴求吉祥,也持有力量。
5.101.6
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः ।
ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वैः ॥ ५.१०१.६ ॥
依其所行,他们是刹帝利——无慈悲心,食蛇者。因造成亲族的毁灭,他们得不到婆罗门的地位。
5.101.7
नामानि चैषां वक्ष्यामि यथाप्राधान्यतः श्रृणु ।
मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ॥ ५.१०१.७ ॥
我将按尊卑次序说出他们的名字,你听着。摩陀利啊,这个被毗湿奴所护持的家族确实值得赞美。
5.101.8
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ।
हृदि चैषां सदा विष्णुर्विष्णुरेव सदा गतिः ॥ ५.१०१.८ ॥
毗湿奴是他们的神,毗湿奴独是他们的至高归依。在他们心中常住的是毗湿奴;毗湿奴独是他们永恒的归宿。
5.101.9
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः ।
अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ॥ ५.१०१.९ ॥
金冠、食蛇者、猛烈者、烈嘴者、风、火、广目,然后是环者。
5.101.10
पङ्कजिद्वज्रविष्कम्भो वैनतेयोऽथ वामनः ।
वातवेगो दिशाचक्षुर्निमेषोऽनिमिषस्तथा ॥ ५.१०१.१० ॥
莲生、金刚支柱、毗那多耶,然后是矮人、风速、见方者、瞬、以及无瞬者。
5.101.11
त्रिरावः सप्तरावश्च वाल्मीकिर्दीपकस्तथा ।
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेतनः ॥ ५.१०१.११ ॥
三鸣、七鸣、蚁垤(或作蚁垤)、灯者,以及魔岛、河岛、鹤、莲旗。
5.101.12
सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः ।
मेषहृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः ॥ ५.१०१.१२ ॥
善面、彩幢、彩羽,以及无罪者、断羊者、优陀、达刹、灭蛇者、食苏摩者。
5.101.13
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः ।
विष्णुधर्मा कुमारश्च परिबर्हो हरिस्तथा ॥ ५.१०१.१३ ॥
重担、鸽子、日眼、长终、毗湿奴法、童子、大束与哈利亦同(皆为迦鲁达之子)。
5.101.14
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च ।
मालयो मातरिश्वा च निशाकरदिवाकरौ ॥ ५.१०१.१४ ॥
妙音、蜜供与金色,同样还有摩拉亚、摩多利什婆、夜主与日主(皆为迦鲁达之子)。
5.101.15
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः ।
प्राधान्यतस्ते यशसा कीर्तिताः प्राणिनश्चये ॥ ५.१०१.१५ ॥
迦鲁达之子,我只是简要提及;这些以及主要因名声而被颂扬的众生。
5.101.16
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले ।
तं नयिष्यामि देशं त्वां वरं यत्रोपलप्स्यसे ॥ ५.१०१.१६ ॥
若你在此没有中意之处,那就来吧,摩多利,我们走;我将带你去那殊胜之地,在那里你会找到所求。