Mahābhārata · Adhyāya 5.117
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.117.1
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः ।
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ॥ ५.११७.१ ॥
Divodāsa, son of Bhīmasena, a king of great valour, protector of the earth, lord and sovereign of the Kāśīs, was renowned.
5.117.2
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः ।
धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः ॥ ५.११७.२ ॥
Let us go there, good lady; come slowly, do not grieve. That king is righteous, devoted to self-restraint, and steadfast in truth.
5.117.3
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः ।
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ॥ ५.११७.३ ॥
The sage Gālava, having approached him and been duly honoured by him, urged that king on for the sake of offspring.
5.117.4
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज ।
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम ॥ ५.११७.४ ॥
I have heard this before, twice-born one; why speak at length? Indeed, O best of the twice-born, this very aim was what I desired, and I had only to hear it.
5.117.5
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान् ।
मामेवमुपयातोऽसि भावि चैतदसंशयम् ॥ ५.११७.५ ॥
It is greatly welcome to me that you have abandoned the other kings and come to me alone; and this will surely come to be, without doubt.
5.117.6
स एव विभवोऽसमाकमश्वानामपि गालव ।
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ॥ ५.११७.६ ॥
That very thing is our splendour, Gālava, and the splendour of horses too; I too shall beget from her one royal son.
5.117.7
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः ।
विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान् ॥ ५.११७.७ ॥
Having said 'So be it', the best of the twice-born gave the maiden to the lord of the earth, and the king duly accepted her according to rite.
5.117.8
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः ।
स्वाहायां च यथा वह्निर्यथा शाच्यां च वासवः ॥ ५.११७.८ ॥
That royal sage delighted with her as the sun with Prabhāvatī, as Agni with Svāhā, and as Vāsava with Śacī.
5.117.9
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः ।
वरुणश्च यथा गौर्यां यथा चर्ध्यां धनेश्वरः ॥ ५.११७.९ ॥
As the moon with Rohiṇī, as Yama with Dhūmorṇā, as Varuṇa with Gaurī, and as the lord of wealth with Ṛddhi.
5.117.10
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः ।
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ॥ ५.११७.१० ॥
As Nārāyaṇa with Lakṣmī, as the ocean with Jāhnavī, as Rudra with Rudrāṇī, and as the grandfather with Vedī.
5.117.11
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया ।
च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा ॥ ५.११७.११ ॥
As the Vāsiṣṭha with Adṛśyantī, Vasiṣṭha with Akṣamālā, Cyavana with Sukanyā, and Pulastya with Sandhyā.
5.117.12
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा ।
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ॥ ५.११७.१२ ॥
And Agastya with the Vaidarbhī, Satyavān with Sāvitrī, Bhṛgu with Pulomā, and Kaśyapa with Aditi.
5.117.13
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः ।
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा ॥ ५.११७.१३ ॥
As Ārcīka with Reṇukā, Kauśika with Haimavatī, Bṛhaspati with Tārā, and Śukra with Śataparvā.
5.117.14
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः ।
ऋचीकः सत्यवत्यां च सरस्वस्यां यथा मनुः ॥ ५.११७.१४ ॥
As the lord of the earth with Bhūmi, Purūravas with Urvaśī, Ṛcīka with Satyavatī, and Manu with Sarasvatī.
5.117.15
शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः ।
दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः ॥ ५.११७.१५ ॥
As Duṣyanta with Śakuntalā, the eternal Dharma with Dhṛti, Nala with Damayantī, and Nārada with Satyavatī.
5.117.16
जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया ।
मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया ॥ ५.११७.१६ ॥
As Jaratkāru with Jaratkārvī, Pulastya with Pratīcī, Ūrṇāyu with Menakā, and Tumburu with Rambhā.
5.117.17
वासुकिः शतशीर्षायां कुमार्यां च धनञ्जयः ।
वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः ॥ ५.११७.१७ ॥
As Vāsuki with Śataśīrṣā, Dhanañjaya with the maiden, Rāma with Vaidehī, and Janārdana with Rukmiṇī.
5.117.18
तथा तु रममाणस्य दिवोदासस्य भूपतेः ।
माधवी जनयामास पुत्रमेकं प्रतर्दनम् ॥ ५.११७.१८ ॥
Thus, while king Divodāsa was delighting in her, Mādhavī bore one son, named Pratardana.
5.117.19
अथाजगाम भगवान्दिवोदासं स गालवः ।
समये समनुप्राप्ते वचनं चेदमब्रवीत् ॥ ५.११७.१९ ॥
Then the venerable Gālava came to Divodāsa, and when the appointed time had arrived he spoke these words.
5.117.20
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः ।
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ॥ ५.११७.२० ॥
Return to me that maiden, and let the horses remain here, O lord of the earth, while I go elsewhere for the fee.
5.117.21
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम् ।
कान्यां निर्यातयामास स्थितः सत्ये महीपतिः ॥ ५.११७.२१ ॥
Then Divodāsa, the righteous-souled lord of the earth, at the appointed time gave back Gālava's maiden, for he stood firm in truth.