摩诃婆罗多 · 章 5.164
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.164.1
उलूकस्य वृत्तः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।
सेनां नियापयामास धृष्टद्युम्नपुरोगमाम् ॥ ५.१६४.१ ॥
贡蒂之子坚战听了乌卢迦的消息,便令以德里斯塔卫母为先锋布列军队。
5.164.2
पदातिनीं नागवतीं रथिनीमश्वबृन्दिनीम् ।
चतुर्विधबलां भीमामकम्पां पृथिवीमिव ॥ ५.१६४.२ ॥
那支由步兵、象兵、车兵、骑兵组成的四军之师,可怖而不动摇,如同大地。
5.164.3
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः ।
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ॥ ५.१६४.३ ॥
由怖军等及阿周那等大车武士守护,受德里斯塔卫母统辖,难以攻破,如平静的大海。
5.164.4
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः ।
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नो व्यकर्षत ॥ ५.१६४.४ ॥
在此军之前,以战斗自负、欲抵达德罗纳的大弓手般遮罗之子德里斯塔卫母率领各路军阵向前推进。
5.164.5
यथाबलं यथोत्साहं रथिनः समुपादिशत् ।
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ॥ ५.१६४.५ ॥
依力量与斗志,他分派车兵:阿周那对御者之子,怖军对难敌。
5.164.6
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् ।
अश्वात्थाम्ने च नकुलं शैब्यं च कृतवर्मणे ॥ ५.१६४.६ ॥
德里斯塔克图对沙利耶,乌塔玛乌贾对乔达摩(克利帕),无种对马嘶,帝王之子对无作。
5.164.7
सैन्धवाय च वार्ष्णेयं युयुधानं समादिशत् ।
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् ॥ ५.१६४.७ ॥
他派遣优利多那(Yuyudhāna)迎战信度王,并让尸건丁(Śikhaṇḍin)在前面对抗毗湿摩。
5.164.8
सहदेवं शकुनये चेकितानं शलाय वै ।
द्रौपदेयांस्तथा पञ्च त्रिगर्तेभ्यः समादिशत् ॥ ५.१६४.८ ॥
他派遣偕提婆(Sahadeva)迎战沙恭尼,遣车其丹(Cekitāna)迎战沙利耶,并派德罗波蒂的五子去对抗三界王族。
5.164.9
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् ।
स समर्थं हि तं मेने पार्थादभ्यधिकं रणे ॥ ५.१६४.९ ॥
他派遣苏跋德罗(阿毗曼尤)迎战伐栗沙塞那,并为其余诸王安排了合适的将领。他认为此人在战斗中比般度之子(阿周那)更有能力。
5.164.10
एवं विभज्य योधांस्तान्पृथक्व सह चैव ह ।
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ॥ ५.१६४.१० ॥
如此将那些战士分别与合并地加以编配之后,那位如火焰般颜色的大弓手(德里斯塔敦尤姆那)为德罗纳分配了一部分兵力。
5.164.11
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः ।
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ॥ ५.१६४.११ ॥
大弓手、诸将之主德里斯塔敦尤姆那随即依礼布置阵形,智慧而意志坚定,准备迎战。
5.164.12
यथोद्दिष्टानि सैन्यानि पाण्डवानामयोजयत् ।
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ॥ ५.१६४.१२ ॥
按照吩咐,他部署了般度族的军队;为了般度之子的胜利,他在战场上坚定地屹立。