摩诃婆罗多 · 章 6.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.31.1
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ६.३१.१ ॥
普利塔之子啊!你心系于我,依靠于我而修习瑜伽,听我说你将如何毫无疑问地完全认识我。
6.31.2
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ ६.३१.२ ॥
我将把这知识连同证悟完整地告诉你;知晓此后,此间再无他物需要去知。
6.31.3
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ६.३१.३ ॥
千万人中或许有一人努力追求成就;而在努力成就者之中,也只有一人真正地认识我。
6.31.4
भूमिरापोऽनलो वायुः स्वं मनो बुद्धिरेव च ।
अहंकार इती यं मे भिन्ना प्रकृतिरष्टधा ॥ ६.३१.४ ॥
地、水、火、风、意、觉和我慢——如此,我的自性分为八种。
6.31.5
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ६.३१.५ ॥
这是我的下等自性;但你应知道,大臂者啊,另有与此不同的我的上等自性,即成为生命的本体,并以之维系这个世界。
6.31.6
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६.३१.६ ॥
你应知道,一切众生都以这两者为根源。我是整个世界的生起,也是它的消融。
6.31.7
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ६.३१.७ ॥
德杀,除我之外,无有更高者。此一切皆贯穿于我,如珠串穿于线上。
6.31.8
रसोऽहमंप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ६.३१.८ ॥
德之子,我是水中之味,是月与日之光明,是一切吠陀中的唵(oṃ)音,是虚空中的声音,是人中的男子气概。
6.31.9
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ६.३१.९ ॥
我是大地中纯净的香气,是火中的光辉;我是一切众生中的生命,是苦行者中的苦行。
6.31.10
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ ६.३१.१० ॥
彼利陀之子,应知我为一切众生的永恒种子。我是智者之智,是有光辉者之光辉。
6.31.11
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ६.३१.११ ॥
我是强者之力,离于欲与贪。婆罗多族之雄牛啊,我是众生中不违法的欲望。
6.31.12
ये चैव सात्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ ६.३१.१२ ॥
应知一切善性、激情与暗性之状态,皆唯从我而生。然而我不在其中,它们在我之中。
6.31.13
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ६.३१.१३ ॥
世界被这由三德构成的诸状态所迷惑,不认识超越它们、不灭的我。
6.31.14
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ६.३१.१४ ॥
这由三德构成的我的神圣幻力难以超越;唯有皈依于我的人才能渡过此幻力。
6.31.15
न मां तुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ ६.३१.१५ ॥
作恶的愚人、人中最卑劣者,知识被幻力夺去、依附阿修罗之性的人,不皈依于我。
6.31.16
चुत्रर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ६.३१.१६ ॥
阿周那啊,有四类善行之人敬拜我:痛苦者、求知者、求财者和智者。婆罗多之最优者啊!
6.31.17
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ६.३१.१७ ॥
其中,智者常常专注、一心奉爱,最为殊胜。智者对我极为珍爱,他也为我所珍爱。
6.31.18
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितःक स हि युक्तात्मा मामेवानुत्तमां गतिं ॥ ६.३१.१८ ॥
这些人都是高尚的;但我认为智者即是我的自我。心已调伏的他安住于我之中,达到至高的归宿。
6.31.19
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ ६.३१.१९ ॥
经过多次轮回之后,有智慧的人归依于我,知道婆苏提婆就是一切;这样的大人物极为罕见。
6.31.20
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ ६.३१.२० ॥
被种种欲望夺去智慧的人,皈依其他神祇,遵守各种戒律,受自身本性所约束。
6.31.21
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ६.३१.२१ ॥
凡是信徒以信心愿意礼拜某一形相,我便使他的那份坚定信心得以确立。
6.31.22
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हितान् ॥ ६.३१.२२ ॥
他怀着这份信心去崇拜它,并从中获得由我所规定的有益愿望。
6.31.23
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ ६.३१.२३ ॥
然而,那些愚钝之人的果报是有尽的;崇拜诸神的人归于诸神,我的信徒也归于我。
6.31.24
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ ६.३१.२४ ॥
愚昧的人认为无显的我已经显现,却不知道我至上、不灭、无与伦比的本性。
6.31.25
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ६.३१.२५ ॥
我并非对一切众生显现,被我的瑜伽幻力所遮蔽。这愚迷的世界不认识我——那无生、不灭者。
6.31.26
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ ६.३१.२६ ॥
阿周那啊,过去、现在、未来的众生,我都知道;但没有人知道我。
6.31.27
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥ ६.३१.२७ ॥
婆罗多啊,所有众生因欲望与憎恶所生的对立之迷惑,在创造之中陷入迷乱,敌人的焚烧者啊。
6.31.28
योषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्त भजन्ते मां दृढव्रताः ॥ ६.३१.२८ ॥
那些行善积德、罪孽已尽的人,脱离了对立的迷惑,坚守誓愿,敬奉于我。
6.31.29
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ ६.३१.२९ ॥
那些依止于我、为脱离衰老与死亡而努力的人,他们了知那梵,了知全部自性与一切业。
6.31.30
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ६.३१.३० ॥
那些连同诸元素、诸神与祭祀而了知我的人,心已安住于瑜伽,即使在临终之时也了知我。