摩诃婆罗多 · 章 7.162
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.162.1
ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः ।
द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् ॥ ७.१६२.१ ॥
于是,坚战与般度之子怖军,大王啊,从四面包围了德罗纳之子。
7.162.2
ततो दुर्योधनो राजा भारद्वाजेन संवृतः ।
अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत।
घोररूपं महाराज भीरूणां भयवर्धनम् ॥ ७.१६२.२ ॥
于是,国王难敌在婆罗堕werg之子(德罗纳)的护卫下,在战场上向般度五子进发;随后,大王啊,爆发了一场可怕的战斗,令怯懦者倍感恐惧。
7.162.3
अम्बष्ठान्मालवान्वङ्गाञ्छिबींस्त्रैगर्तकानपि ।
प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो वृकोदरः ॥ ७.१६२.३ ॥
愤怒的狼腹(怖军)也把阿姆巴斯塔、摩罗婆、盎伽、尸毗和三楼人的军队送往死亡之界。
7.162.4
अभीषाहाञ्छूरसेनान्क्षत्रियान्युद्धदुर्मदान् ।
निकृत्त्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ॥ ७.१६२.४ ॥
怖军斩杀了阿毗沙诃、首罗塞那以及在战场上傲慢的刹帝利,使大地变成血泥。
7.162.5
यौधेयानद्रिजान्राजन्मद्रकान्मालवानपि ।
प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः ॥ ७.१६२.५ ॥
大王啊,冠者(阿周那)以利箭也把耶陀帝耶、阿德利耶、摩陀罗和摩罗婆送往死亡之界。
7.162.6
प्रगाढमञ्चोगतिभिर्नाराचैरभिताडिताः ।
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥ ७.१६२.६ ॥
被深深射入的铁箭击中,大象倒在地上,如同双峰之山。
7.162.7
निकृत्तैर्हस्तिहस्तैश्च चेष्टमानैरितस्ततः ।
रराज वसुधाऽऽकीर्णा विसर्पद्भिरिवोरगैः ॥ ७.१६२.७ ॥
大地上散落着被砍断的象鼻和四处翻滚挣扎的躯体,闪耀如同布满了爬行的蛇群。
7.162.8
क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ ।
द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये ॥ ७.१६२.८ ॥
大地上散落着被抛掷的金饰彩绘王室华盖,闪耀如同世界末劫时布满日月及诸星的天空。
7.162.9
हत प्रहरताभीता विध्यत व्यवकृन्तत ।
इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ॥ ७.१६२.९ ॥
“打!进攻!无畏地刺!刺穿!砍杀!”向着首那阿什瓦的战车,发出了这样喧嚣的吶喊。
7.162.10
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे ।
व्यधमत्तान्महवायुर्मेघानिव दुरत्ययः ॥ ७.१६२.१० ॥
德罗纳大怒,在战斗中以风神箭将他们吹散,如同不可抵挡的大风吹散云朵。
7.162.11
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् ।
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ ७.१६२.११ ॥
般遮罗人被德罗纳击杀,惊恐逃散,而大德的怖军与阿周那就在旁观看。
7.162.12
ततः किरीटि भीमश्च सहसा सन्न्यवर्तताम् ।
महता रथवंशेन परिगृह्य बलं महत् ॥ ७.१६२.१२ ॥
于是持冠者(阿周那)与怖军忽然回转,率大批战车列阵,包围了那庞大的军队。
7.162.13
बीभत्सुर्दक्षिणं वार्श्वमुत्तरं तु वृकोदरः ।
भारद्वाजं शरौघाभ्यां महद्भामभ्यवर्षताम् ॥ ७.१६२.१३ ॥
Bībhatsu从右翼,Vṛkodara从左翼,以两阵箭雨向Bhāradvāja(德罗纳)倾泻猛烈的怒火。
7.162.14
तौ तथा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः ।
अन्वगच्छन्महाराज मात्स्यैश्च सह सोमकैः ॥ ७.१६२.१४ ॥
大王,同样地,Sṛñjaya族、强大的Pāñcāla人,以及Matsya人和Somaka人也紧随那二人而去。
7.162.15
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।
महत्या सेनया राजञ्जग्मुर्द्रोणरथं प्रति ॥ ७.१६२.१५ ॥
同样,你儿子的高贵车战勇士们,大王啊,率领庞大军队,朝德罗纳的战车进发。
7.162.16
ततः सा भारती सेना हन्यमाना किरीटिना ।
तमसा निद्रया चैव पुनरेव व्यदीर्यत ॥ ७.१६२.१६ ॥
于是,那支被Kirīṭin(阿周那)打击的婆罗多大军,再次被黑暗和睡意冲散。
7.162.17
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।
नाशक्यन्त महाराज योधा वारयितुं तदा ॥ ७.१६२.१७ ॥
大王,尽管德罗纳和你的儿子亲自阻拦,那时的战士们却无法制止他们。
7.162.18
सा पाण्डुपुत्रस्य शरैर्दीर्यमाणा महाचमूः ।
तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ॥ ७.१६२.१८ ॥
那支被般度之子的箭矢撕裂的大军,在世界被黑暗笼罩时,向四面八方逃散。
7.162.19
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः ।
प्राद्रवन्त महाराज भयाविष्टाः समन्ततः ॥ ७.१६२.१९ ॥
大王啊,那里有些人主抛下数百匹坐骑,被恐惧所攫,四面八方逃散而去。