Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.118.1

सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २.११८.१ ॥

阿那苏耶如此说后,毗提诃公主悉多敬重她的话语,轻声开始回应。

2.118.2

नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।
विदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥ २.११८.२ ॥

尊贵的夫人,您如此对我说,并不令人惊讶。但我也知道,对女子而言,丈夫如同师长。

2.118.3

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २.११८.३ ॥

尊贵的夫人,即使我的丈夫品行不端,我也应当以专一的心意侍奉他。

2.118.4

किं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः ।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ २.११८.४ ॥

何况那样一位品德值得称赞、慈悲、克制诸根、爱意始终如一、心怀正法、如母如父般可亲的丈夫呢!

2.118.5

यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः ।
तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २.११८.५ ॥

大力的罗摩对待其他王后的方式,与对待考萨利亚的方式完全相同。

2.118.6

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः ।
मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २.११८.६ ॥

王子罗摩,即使对只见过一次的女子,也放下傲慢,像母亲一样相待;他是英雄,通晓法道。

2.118.7

आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २.११८.७ ॥

走向这片荒凉可怕的森林时,我心中牢牢铭记着婆母放在我心里的那番重要教诲。

2.118.8

पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।
अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २.११८.८ ॥

还有母亲从前在授手之时、圣火面前教导我的话语,我也牢记在心。

2.118.9

नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २.११८.९ ॥

修持正法的人啊,你的话语使这一切重新明确;对于女子而言,除了侍奉丈夫,别无其他苦行被规定。

2.118.10

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २.११८.१० ॥

萨维特丽侍奉丈夫,因而在天界受到尊崇;同样,你的行为也因侍奉丈夫而升入天界。

2.118.11

वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।
रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २.११८.११ ॥

罗希尼,乃诸女之首,天界女神,离开月亮,连一刻也见不到。

2.118.12

एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २.११८.१२ ॥

这样优秀的女子,对丈夫坚守誓愿,凭借自己的功德,在天神的世界受到尊崇。

2.118.13

ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २.११८.१३ ॥

于是阿那索耶听到悉多的话,十分欢喜,她嗅了嗅悉多的头,使弥提罗的公主欢喜,说道:

2.118.14

नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २.११८.१४ ॥

我凭借种种戒律修得了伟大的苦行。纯洁微笑的悉多啊,我愿依靠这苦行之力,赐予你什么。

2.118.15

उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २.११८.१५ ॥

你的话,弥提罗的公主啊,恰当而动听。我很欣慰。请告诉我,我应为你做什么?

2.118.16

तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २.११८.१६ ॥

悉多听了她的话,略感惊讶,对这位拥有苦行之力的人说:「就这样吧,已经做到了。」

2.118.17

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २.११८.१७ ॥

知法的悉多听她这样说,更加欢喜。阿那索耶说:「悉多啊,我要使你的欢喜得到成就。」

2.118.18

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २.११८.१८ ॥

这是神圣而上好的花环、衣裳和饰物,还有,维德嘿啊,贵重的身体涂膏与香膏。

2.118.19

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।
अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २.११८.१९ ॥

悉多啊,我所赠的这物将使你的肢体生辉;它合宜、不褪色,将永远如此。

2.118.20

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।
शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २.११८.२० ॥

遮那伽之女啊,你以天界的香膏涂抹肢体,将如吉祥天女庄严不灭的毗湿奴,庄严你的夫君。

2.118.21

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २.११८.२१ ॥

摩ithila 之女悉多接受了衣物、香膏、饰物与花环——这份至上的情谊之赠。

2.118.22

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।
श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २.११८.२२ ॥

悉多接受了那份情谊之赠,光辉的她合掌恭立,在那里侍奉这位苦行之妇。

2.118.23

तथा सीतासुपासीनामनसूया दृढव्रता ।
वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २.११८.२३ ॥

如此,坚守誓愿的阿那索耶坐在悉多身旁,顺着愉快的交谈开始询问一事。

2.118.24

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।
राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २.११८.२४ ॥

悉多啊,我听说你在选婿大典上被这位光辉的罗怙之裔赢得。

2.118.25

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २.११८.२५ ॥

哦,弥提罗之女,我想详细听听那段故事。请按你所经历的,完整地讲给我听。

2.118.26

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २.११८.२६ ॥

如此被问,遵行法度的悉多说道:“请听。”于是讲述了那个故事。

2.118.27

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।
क्षत्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २.११८.२७ ॥

弥提罗之主,名叫遮那迦的英雄,通晓法度,专注于刹帝利之职,依正义统治大地。

2.118.28

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २.११८.२८ ॥

当他手持犁耙耕田时,我破土而出,成为国王的女儿。

2.118.29

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।
पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २.११८.२९ ॥

国王正忙于撒播一把把种子,他看见我全身沾满尘土,遮那迦感到惊异。

2.118.30

अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ २.११८.३० ॥

他无子嗣,出于怜爱亲自将我抱上膝头,说道:“这是我的女儿。”于是他的慈爱倾注在我身上。

2.118.31

अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।
एवमेतन्नरपते धर्मेण तनया तव ॥ २.११८.३१ ॥

天空中一个非人的声音对我说:“正是如此,人主啊;依法,她是你的女儿。”

2.118.32

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः ।
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ २.११८.३२ ॥

于是我那心怀正法的父亲,米提拉之主,欣喜万分。得到我之后,那位人主获得了巨大的兴盛。

2.118.33

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २.११८.३३ ॥

那位行善积德的人把我交给了我心爱的长妃。她以母亲般的慈爱,温柔地珍视我。

2.118.34

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ २.११८.३४ ॥

然而,见我年岁已到可以嫁人,我的父亲陷入忧虑,黯然神伤,如同失去财富的穷人一般。

2.118.35

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २.११८.३५ ॥

在世间,女儿的父亲无论遭遇同等之人还是低下之人的轻慢,即便他在大地上与因陀罗相等。

2.118.36

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः ।
चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ २.११८.३६ ॥

国王见那羞辱近在眼前,心中陷入忧虑之海,如同不会游水的人一般,找不到岸边。

2.118.37

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।
सदृशं चानुरूपं च महीपालः पतिं मम ॥ २.११८.३७ ॥

他知道我并非出自母胎,却在思索中未能为我找到相称、合适的夫婿。

2.118.38

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।
स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ २.११८.३८ ॥

那位始终沉思的智慧之王心中生出此念:我要亲自为女儿选择夫婿。

2.118.39

महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २.११८.३९ ॥

那时在他的大祭典上,大德的伐楼那出于慈爱,赠予他一张殊胜的弓以及两个装满不竭箭矢的箭囊。

2.118.40

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ २.११८.४० ॥

那张弓人力不可撼动;即便竭力、怀着敬畏,诸王也不能将它拉弯,哪怕在梦中。

2.118.41

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २.११८.४१ ॥

我那说话诚实的父亲得到此弓后,先在诸王的集会上召集各位君主,宣布了此事。

2.118.42

इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।
तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ २.११८.४२ ॥

谁能举起此弓并为其上弦,我的女儿便将成为他的妻子,此事毫无疑问。

2.118.43

तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् ।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २.११८.४३ ॥

众王见那张重如山岳的殊胜之弓,无力举起,便行礼离去。

2.118.44

सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ।
लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ २.११८.४४ ॥

经过很长时间,这位光辉的罗怙之裔随毗首彌多罗来观看祭祀;真正勇猛的罗摩与弟弟罗什曼那一同前来。

2.118.45

विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ।
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २.११८.४५ ॥

我父亲所厚待的正直之士毗首彌多罗,在那里对我的父亲说话;罗摩与罗什曼那两位兄弟也在那里。

2.118.46

सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।
धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २.११८.४६ ॥

这两位十车王之子想观看此弓。请把这张神圣之弓展示给王子罗摩。

2.118.47

इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ।
निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २.११८.४७ ॥

那位婆罗门如此说后,便命人取来此弓;那位大力者在一瞬之间便将其拉弯。

2.118.48

ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २.११८.४८ ॥

他立即搭上弓弦,以大力将其全然拉满。

2.118.49

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।
तस्य शब्दो ऽभवद्भीमः पतितस्याशनेरिव ॥ २.११८.४९ ॥

他用力拉弓时,弓在中间断成两截,其声如坠落的霹雳,令人恐惧。

2.118.50

ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २.११८.५० ॥

当时,信守诺言的父亲决意将我许给罗摩,便举起了上好的水器。

2.118.51

दीयमानां न तु तदा प्रतिजग्राह राघवः ।
अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ २.११८.५१ ॥

当时虽然有人献上,罗怙之子却未接受,因为他不知道阿约提亚之主、他父亲的心意。

2.118.52

ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २.११८.५२ ॥

于是父亲向年迈的公公国王十车王致辞,将我许给了自知其性的罗摩。

2.118.53

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २.११८.५३ ॥

我那贤德美丽的幼妹乌尔弥拉,也由父亲亲自许配给了罗什曼那为妻。

2.118.54

एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।
अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २.११८.५४ ॥

如此,在那场自选夫婿的集会上,我被许给了罗摩;依法,我倾心于我的夫君,这位勇士中的最优者。