Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 2.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.16.1

स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।
प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ २.१६.१ ॥

人で溢れる後宮の門を通り過ぎ、彼はやがて人けのない中庭に至った。彼は古伝承に通じた人であった。

2.16.2

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः।
अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम् ॥ २.१६.२ ॥

そこは槍と弓を携え、磨かれた耳飾りをつけた、油断なく一心で、自らの主君に忠実な若者たちに守られていた。

2.16.3

तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्।
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान् ॥ २.१६.३ ॥

そこで彼は、黄土色の衣をまとい、杖を手にし、よく飾られ、門口に立つ、後宮の監督者である心の静かな老人たちを見た。

2.16.4

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।
सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः ॥ २.१६.४ ॥

彼が近づいて来るのを見て、ラーマを喜ばせたいと願い、彼らは皆、慌てて突然席から立ち上がった。

2.16.5

तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः।
क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति ॥ २.१६.५ ॥

謙虚な心をもつ、有能な御者の子スマントラは彼らに言った。「すぐにラーマに告げよ、スマントラが門口に立っていると。」

2.16.6

ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः।
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ २.१६.६ ॥

主君を喜ばせたいと願い、彼らはラーマのもとに近づき、妻とともにいたラーマにすぐに告げた。

2.16.7

प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।
तत्रैवानाययामास राघवः प्रियकाम्यया ॥ २.१६.७ ॥

父の奥の間から御者が来たと告げられたことを知ると、ラーガヴァは喜ばせようという思いから、その場ですぐに彼を呼び寄せた。

2.16.8

तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्।
ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ २.१६.८ ॥

クベーラのように、美しく飾られ、上に覆いを広げた金の寝台に座っている彼を、御者は見た。

2.16.9

वराहरुधिराभेण शुचिना च सुगन्धिना।
अनुलिप्तं परार्घ्येन चन्दनेन परंतपम् ॥ २.१६.९ ॥

猪の血のような色をし、清らかで芳しく、最上の白檀を塗られた、敵を苦しめる人。

2.16.10

स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।
उपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ २.१६.१० ॥

傍らに立ち、手にヤクの尾の払子を持つシーターも付き添っていた。月が輝くチトラーと共にあるように。

2.16.11

तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।
ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ २.१६.११ ॥

自らの輝きに満ち、太陽のように燃え立つ、恩恵を与える方。その方に、礼儀を知る御者は謙虚に礼拝した。

2.16.12

प्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने।
राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ २.१६.१२ ॥

合掌して、くつろぎの座と寝台に座る美しい顔の王子を見て、王に敬われたスmantraはこう言った。

2.16.13

कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति।
महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम् ॥ २.१६.१३ ॥

良き息子を持つカウサリヤーよ、ラーマよ。父上がお前に会いたがっておられる。第一王妃カイケーイーのところへも、遅れずに行きなさい。

2.16.14

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।
ततः सम्मानयामास सीतामिदमुवाच ह ॥ २.१६.१४ ॥

そう告げられて、大いに輝く人中の獅子ラーマは大いに喜んだ。そしてシーターを敬い、このように言った。

2.16.15

देवि देवश्च देवी च समागम्य मदन्तरे।
मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम् ॥ २.१६.१५ ॥

女王よ、私のいない間に王と王妃が会って、きっと私の灌頂に関することを相談しているのだ。

2.16.16

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।
संचोदयति राजानं मदर्थमसितेक्षणा ॥ २.१६.१६ ॥

彼の意図を察したカイケーイー(スダクシナー)は、黒い目をして、喜ばしいことを望み、私のために王を促している。

2.16.17

सा प्रहृष्टा महाराजं हितकामानुवर्तिनी।
जननी चार्थकामा मे केकयाधिपतेः सुता ॥ २.१६.१७ ॥

彼女は喜んで偉大な王に従い、その幸せを願っている。彼女は私の母でもあり、私の利益を願うケーカヤの王の娘である。

2.16.18

दिष्ट्या खलु महाराजो महिष्या प्रियया सह।
सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम ॥ २.१६.१८ ॥

幸いにも、偉大な王は最愛の第一王妃とともに、私の利益をなしてくれるスマントラを使者として遣わされた。

2.16.19

यादृशी परिषत् तत्र तादृशो दूत आगतः।
ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ २.१६.१९ ॥

あちらの集会がどのようであれ、そのように使者が来た。きっと今日こそ王は私を太子の位に灌頂なさるだろう。

2.16.20

हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्।
सह त्वं परिवारेण सुखमास्स्व रमस्व च ॥ २.१६.२० ॥

よろしい、ここから急いで行き、大王にお目にかかろう。お前は供の者とともに安らかに座し、楽しむがよい。

2.16.21

पतिसम्मानिता सीता भर्तारमसितेक्षणा।
आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २.१६.२१ ॥

夫に敬われた黒い瞳のシーターは、吉祥の言葉を述べながら門まで夫に従っていった。

2.16.22

राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्।
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ २.१६.२२ ॥

再生族に認められた王国で、世界の創造者インドラのように、王はあなたのために王位献上祭(ラージャスーヤ)の灌頂を行うにふさわしい。

2.16.23

दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्।
कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २.१६.२३ ॥

祭祀のために清められ、誓願を具え、上等の鹿皮をまとい、清浄で、手に鹿の角を持つあなたを見つめながら、私はあなたに仕えます。

2.16.24

पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः।
वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २.१६.२४ ॥

金剛を持つインドラは東を、ヤマは南を守ってくださいますように。ヴァルナは西を、富の主クベーラは北を守ってくださいますように。

2.16.25

अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः।
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २.१६.२५ ॥

その後、シーターに別れを告げ、吉祥の儀式を終えて、ラーマはスマントラとともに宮殿を出た。

2.16.26

पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः।
लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम् ॥ २.१६.२६ ॥

山の洞窟に住む獅子が山から出るように、彼は扉の前で恭しく合掌して立つラクシュマナを見た。

2.16.27

अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः।
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २.१६.२७ ॥

それから中庭で、親しい人々と会った。彼を訪ねてきた人々全員を見て、彼らと会い、挨拶を返した。

2.16.28

ततः पावकसंकाशमारुरोह रथोत्तमम्।
वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः ॥ २.१६.२८ ॥

そして人中の虎、王子は、火のように輝き虎の皮で飾られた優れた戦車に登った。

2.16.29

मेघनादमसम्बाधं मणिहेमविभूषितम्।
मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम् ॥ २.१६.२९ ॥

雲のように轟き、広々として、宝石と金で飾られ、その輝きで目を奪うかのような、メール山の光輝を放つ戦車。

2.16.30

करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः।
हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ २.१६.३० ॥

象の子のような優れた馬に繋がれ、千眼インドラの戦車のように速い。

2.16.31

प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया।
स पर्जन्य इवाकाशे स्वनवानभिनादयन् ॥ २.१६.३१ ॥

光輝に輝くラーガヴァは、素早く戦車に乗って出発した。空の雨雲のように轟きながら進んだ。

2.16.32

निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः।
चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ २.१६.३२ ॥

大きな雲から月が現れるように、輝かしい方は住まいから出てこられた。ラーガヴァの弟ラクシュマナは、手に美しいヤクの尾の払子を持っていた。

2.16.33

जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः।
ततो हलहलाशब्दस्तुमुलः समजायत ॥ २.१६.३३ ॥

兄ラクシュマナは戦車に乗り、後ろから兄を守った。そのとき大きな喧噪の声が起こった。

2.16.34

तस्य निष्क्रममाणस्य जनौघस्य समन्ततः।
ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः ॥ २.१६.३४ ॥

彼が出て行くとき、人々の群れが四方から押し寄せた。続いて、優れた馬や山のような主要な象たちも従った。

2.16.35

अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः।
अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः ॥ २.१६.३५ ॥

同じように、何百、何千もの人々がラーマに従った。彼の前には、白檀と沈香で飾られた甲冑の戦士たちがいた。

2.16.36

खड्गचापधराः शूरा जग्मुराशंसवो जनाः।
ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥ २.१६.३६ ॥

剣と弓を携えた勇士たちと、幸運を祈る人々が進んだ。そして楽器の音と吟遊詩人の賛歌の声が響いた。

2.16.37

सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि।
हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥ २.१६.३७ ॥

すると道では四方から勇士たちの獅子吼が聞こえ、館の窓辺に立つ装身具で飾った女たちの声もまた聞こえた。

2.16.38

कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः।
रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ॥ २.१६.३८ ॥

敵を征服する者は、肢体に欠けたところのない女たちが、ラーマを喜ばせたいと願って撒く美しい花々の山に覆われながら進んだ。

2.16.39

वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे।
नूनं नन्दति ते माता कौसल्या मातृनन्दन ॥ २.१६.३९ ॥

館に立つ人々も地に立つ人々も、優れた言葉で彼を讃えて言った。「きっとあなたの母クアウシャリヤーは喜んでいることでしょう、母の喜びよ!」

2.16.40

पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्।
सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम् ॥ २.१६.४० ॥

「あなたの成功した旅を見、父祖の王国が近づいたのを見て、彼女は喜ぶことでしょう」——そして女性の中で最も優れたシーターについても、同様に言われた。

2.16.41

अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्।
तया सुचरितं देव्या पुरा नूनं महत् तपः ॥ २.१६.४१ ॥

あの女たちは思った。「彼女はラーマの心の愛しい人だ。あの女神は昔、きっと大いなる苦行をしたに違いない」と。

2.16.42

रोहिणीव शशाङ्केन रामसंयोगमाप या।
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ २.१६.४२ ॥

月と結ばれたローヒニーのように、ラーマとの結びつきを得た彼女は、王道に立つ人々が語る愛しい言葉を聞いた。

2.16.43

स राघवस्तत्र तदा प्रलापान्
शुश्राव लोकस्य समागतस्य।
आत्माधिकारा विविधाश्च वाचः
प्रहृष्टरूपस्य पुरे जनस्य ॥ २.१६.४३ ॥

その時ラーガヴァはそこで、町に集まった人々の様々な話を聞いた。喜びの面持ちの人々が自分たちの事を語る言葉であった。

2.16.44

एष श्रियं गच्छति राघवोऽद्य
राजप्रसादाद् विपुलां गमिष्यन्।
एते वयं सर्वसमृद्धकामा
येषामयं नो भविता प्रशास्ता ॥ २.१६.४४ ॥

今日この方は王の恩寵によって大いなる繁栄を得られる。我らはみな願いがかなうだろう、この方が我らの統治者となられるのだから。

2.16.45

लाभो जनस्यास्य यदेष सर्वं
प्रपत्स्यते राष्ट्रमिदं चिराय।
न ह्यप्रियं किंचन जातु कश्चित्
पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ २.१६.४५ ॥

この民にとっての利益は、この国が長きにわたりすべてを得ることである。この人々の主のもとでは、誰一人として不快なことや苦しみを見ることはないだろう。

2.16.46

स घोषवद्भिश्च हयैः सनागैः
पुरःसरैः स्वस्तिकसूतमागधैः।
महीयमानः प्रवरैश्च वादकै-
रभिष्टुतो वैश्रवणो यथा ययौ ॥ २.१६.४६ ॥

鳴き声を上げる馬と象が先導し、祝詞の唱え手、御者、吟遊詩人に敬われ、優れた楽人たちに讃えられながら、彼はヴァイシュラヴァナ(クベーラ)のように進んだ。

2.16.47

करेणुमातङ्गरथाश्वसंकुलं
महाजनौघैः परिपूर्णचत्वरम्।
प्रभूतरत्नं बहुपण्यसंचयं
ददर्श रामो विमलं महापथम् ॥ २.१६.४७ ॥

ラーマは、雌象・雄象、戦車、馬で満ち、大勢の人々で広場が埋め尽くされ、多くの宝玉と数多くの交易品の山に富む、清らかな大路を見た。