蚁垤《罗摩衍那》 · 篇 2.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.8.1
मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत्।
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ २.८.१ ॥
曼陀罗妒忌地看着她,扔掉了那件首饰,满怀愤怒与悲痛,说出了这些话。
2.8.2
हर्षं किमर्थमस्थाने कृतवत्यसि बालिशे।
शोकसागरमध्यस्थं नात्मानमवबुध्यसे ॥ २.८.२ ॥
愚蠢的人啊,你为何在不合时宜的地方欢喜?你竟不觉察自己正身处悲伤的大海之中。
2.8.3
मनसा प्रसहामि त्वां देवि दुःखार्दिता सती।
यच्छोचितव्ये हृष्टासि प्राप्य त्वं व्यसनं महत् ॥ २.८.३ ॥
王后啊,我为悲伤所折磨,心中为你忧虑。你却在应当悲伤的事情上欢喜,尽管你已遭遇巨大的灾难。
2.8.4
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्।
अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ॥ २.८.४ ॥
我为你的愚昧而忧伤。哪个明智的女人会因对头所生的儿子之崛起而欢喜呢?那崛起如同死亡降临一般。
2.8.5
भरतादेव रामस्य राज्यसाधारणाद् भयम्।
तद् विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ॥ २.८.५ ॥
因为王国是共同分享的,罗摩的恐惧正来自婆罗多。想到这一点,我心中忧伤,因为恐惧是从胆怯者心中产生的。
2.8.6
लक्ष्मणो हि महाबाहू रामं सर्वात्मना गतः।
शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ २.८.६ ॥
臂力强大的罗什曼那全心归依罗摩;舍睹卢祇那也如此归依婆罗多,正如罗什曼那归依迦古特斯塔的罗摩。
2.8.7
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि।
राज्यक्रमो विसृष्टस्तु तयोस्तावद्यवीयसोः ॥ २.८.७ ॥
美人啊,即便按照亲近的次序,王位的继承也本属婆罗多;但为了那两位幼子,这一次序如今已被弃置。
2.8.8
विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः।
भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥ २.८.८ ॥
她因惧怕精通刹帝利行为、智慧且善于及时行动的罗摩,想到你的儿子而颤抖起来。
2.8.9
सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते।
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ २.८.९ ॥
考莎厘雅真是有福之人,她的儿子明天在普莎星宿之时,将由最优秀的婆罗门为他行灌顶,册封为太子。
2.8.10
प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम्।
उपस्थास्यसि कौसल्यां दासीवत् त्वं कृताञ्जलिः ॥ २.८.१० ॥
考莎厘雅已获得大地,欢喜安心,敌人已被消灭,你将双手合十,如婢女一般侍奉她。
2.8.11
एवं च त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि।
पुत्रश्च तव रामस्य प्रेष्यत्वं हि गमिष्यति ॥ २.८.११ ॥
如此,你也与我们一起成为她的侍女,你的儿子也将沦为罗摩的仆役。
2.8.12
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः।
अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥ २.८.१२ ॥
罗摩最尊贵的妇人们必定欢喜,而你的儿媳们却不会因婆罗多的败落而欢喜。
2.8.13
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः।
रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥ २.८.१३ ॥
见满心欢喜的曼陀罗在说话,于是王后吉开伊便称赞罗摩的品德。
2.8.14
धमर्ज्ञो गुणवान् दान्तः कृतज्ञः सत्यवान् शुचिः।
रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ २.८.१४ ॥
罗摩通晓法义、有德、克己、感恩、诚实、清净,是国王的长子,因此配得上太子之位。
2.8.15
भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत् पालयिष्यति।
संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥ २.८.१५ ॥
长寿的罗摩将像父亲一样护佑兄弟与仆从。驼背女啊,听闻罗摩的灌顶,你为何懊恼?
2.8.16
भरतश्चापि रामस्य ध्रुवं वर्षशतात् परम्।
पितृपैतामहं राज्यमवाप्स्यति नरर्षभः ॥ २.८.१६ ॥
婆罗多也将在罗摩之后百年,必定获得父祖的王国,他是人中之雄。
2.8.17
सा त्वमभ्युदये प्राप्ते दह्यमानेव मन्थरे।
भविष्यति च कल्याणे किमिदं परितप्यसे ॥ २.८.१७ ॥
曼陀罗啊,兴旺之时已来临,你为何如被焚烧一般?此事将是吉祥的,你又为何为之懊恼?
2.8.18
यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः।
कौसल्यातोऽतिरिक्तं च मम शुश्रूषते बहु ॥ २.८.१८ ॥
婆罗多为我所敬重,罗摩(罗怙之后)亦然;罗摩对我的侍奉甚至超过了考萨利亚。
2.8.19
राज्यं यदि हि रामस्य भरतस्यापि तत् तदा।
मन्यते हि यथाऽऽत्मानं यथा भ्रातॄंस्तु राघवः ॥ २.८.१९ ॥
若王国属于罗摩,那么也属于婆罗多。罗怙之裔如何看待自己,便如何看待兄弟。
2.8.20
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता।
दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् ॥ २.८.२० ॥
曼陀罗听到吉开伊的话,极为忧伤。她长长地叹出一口热气,对吉开伊说道:
2.8.21
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे।
शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥ २.८.२१ ॥
你只看见祸患,因愚昧而不知自身处境;你正沉没于充满忧愁与灾难的苦海之中。
2.8.22
भविता राघवो राजा राघवस्य च यः सुतः।
राजवंशात्तु भरतः कैकेयि परिहास्यते ॥ २.८.२२ ॥
罗怙之裔将为王,罗怙之裔之子此后也将为王。吉开伊啊,婆罗多将被排除于王族之外。
2.8.23
नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि।
स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ २.८.२३ ॥
夫人啊,国王的儿子并非都留在王位上。若让所有人都被立为王,将酿成大祸。
2.8.24
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः।
स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥ २.८.२४ ॥
因此,吉开伊啊,肢体无瑕的人啊!国王将国政托付给长子,也托付给其他具有德行的人。
2.8.25
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति।
अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले ॥ २.८.२५ ॥
他将彻底败落,如同无人庇护之人,失去幸福与王族血脉,亲爱的。
2.8.26
साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुद्ध्यसे।
सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमर्हसि ॥ २.८.२६ ॥
我是为了你才落到这般境地,你却不明白我。在敌对者的兴盛之中,你本应赐予我的,你应当给予。
2.8.27
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्।
देशान्तरं नाययिता लोकान्तरमथापि वा ॥ २.८.२७ ॥
罗摩得到这无阻碍的王国之后,必定会把婆罗多送往别国,甚至送往另一个世界。
2.8.28
बाल एव तु मातुल्यं भरतो नायितस्त्वया।
संनिकर्षाच्च सौहार्दं जायते स्थावरेष्विव ॥ २.८.२८ ॥
在他年幼时,你并未把婆罗多送到外祖家;情分由亲近而生,正如草木之于大地。
2.8.29
भरतानुवशात् सोऽपि शत्रुघ्नस्तत्समं गतः।
लक्ष्मणो हि यथा रामं तथायं भरतं गतः ॥ २.८.२९ ॥
他顺从婆罗多的意愿,因此沙特鲁祥那也与他一样了;正如罗什曼那追随罗摩,此人也追随婆罗多。
2.8.30
श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीवनैः।
संनिकर्षादिषीकाभिर्मोचितः परमाद् भयात् ॥ २.८.३० ॥
听说某棵树本要被林中居民砍伐,因为它靠近芦苇,便借芦苇之助,脱离了大难。
2.8.31
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः।
अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥ २.८.३१ ॥
毫无疑问,苏弥咏罗之子将守护罗摩,罗ghava也将守护罗什曼那。他们的兄弟之情如双阿输瓦神一般,在诸世界中广为人知。
2.8.32
तस्मान्न लक्ष्मणे रामः पापं किंचित् करिष्यति।
रामस्तु भरते पापं कुर्यादेव न संशयः ॥ २.८.३२ ॥
因此,罗摩不会对罗什曼那做任何恶事。但罗摩确实可能对婆罗多作恶——这一点毫无疑问。
2.8.33
तस्माद् राजगृहादेव वनं गच्छतु राघवः।
एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ २.८.३३ ॥
因此,让罗ghava直接从王宫前往森林。这让我非常高兴,对你也大有好处。
2.8.34
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति।
यदि चेद् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति ॥ २.८.३४ ॥
如此,你这一族的人也将获得福祉——如果婆罗多依法得到父亲的王国。
2.8.35
स ते सुखोचितो बालो रामस्य सहजो रिपुः।
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ २.८.३५ ॥
你那在安乐中长大的儿子——罗摩天生的敌人——在富足者的掌控之下,目标已毁,将如何生存?
2.8.36
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्।
प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ २.८.३६ ॥
如同狮子在林中追逐象群之王,你应当保护婆罗多——他正被罗摩压制。
2.8.37
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया।
राममाता सपत्नी ते कथं वैरं न यापयेत् ॥ २.८.३७ ॥
你曾因骄傲、因为自己享有福分而轻慢了她。罗摩之母,你的同夫人,又怎会不怀恨在心呢?
2.8.38
यदा च रामः पृथिवीमवाप्स्यते
प्रभूतरत्नाकरशैलसंयुताम्।
तदा गमिष्यस्यशुभं पराभवं
सहैव दीना भरतेन भामिनि ॥ २.८.३८ ॥
当罗摩得到这片遍布宝石矿藏与山岭的大地时,哦,夫人,你将与婆罗多一同陷入凄惨、不祥的败落。
2.8.39
यदा हि रामः पृथिवीमवाप्स्यते
ध्रुवं प्रणष्टो भरतो भविष्यति।
अतो हि संचिन्तय राज्यमात्मजे
परस्य चैवास्य विवासकारणम् ॥ २.८.३९ ॥
罗摩得到大地之时,婆罗多必定败亡。所以你要为你的儿子仔细考虑王位,也要想想这另一人被流放的缘由。