Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.97

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.97.1

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्।
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ २.९७.१ ॥

罗摩将极度激愤、被怒火冲昏头脑的苏弥special之子罗什曼那安抚妥当后,便说了这番话。

2.97.2

किमत्र धनुषा कार्यमसिना वा सचर्मणा।
महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २.९७.२ ॥

既然婆罗多亲自到来,此处何必用弓,或用剑与盾呢?啊,大弓箭手,大智者。

2.97.3

पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्।
किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ॥ २.९७.३ ॥

我既已承诺遵守父亲的誓言,若杀了前来的婆罗多,那带着污名的王国又于我何用呢,罗什曼那?

2.97.4

यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्।
नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ २.९७.४ ॥

凡是因亲属或朋友的毁灭而来的财富,我都不会接受,正如人不会吃下掺了毒的食物。

2.97.5

धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण।
इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ २.९७.५ ॥

罗什曼那啊,我为你们所求的,有法、利、欲,甚至大地;这一点我向你承诺。

2.97.6

भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण।
राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ २.९७.६ ॥

罗什曼那啊,为了使兄弟团结,也为了他们的幸福,我甚至愿意拥有王位;我以真理为誓,触摸我的兵器。

2.97.7

नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा।
नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ २.९७.७ ॥

温和的罗什曼那啊,这被大海环绕、难以获得的大地并非我的;即使是因陀罗的地位,我也不会以不法去求。

2.97.8

यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद।
भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ २.९७.८ ॥

赐予尊荣者啊,若没有婆罗多、你和沙特卢格那,我还能有什么快乐,就让火焰将其化为灰烬吧。

2.97.9

मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः।
मम प्राणात् प्रियतरः कुलधर्ममनुस्मरन् ॥ २.९७.९ ॥

我想,爱护兄弟、比我的生命还亲爱的婆罗多,是记着家族的法度而来到阿逾陀的。

2.97.10

श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्।
जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ २.९७.१० ॥

英雄啊,人中之最,他听说我身披发辫与树皮衣,与耆那吉和你一同被放逐,

2.97.11

स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः।
द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गतः ॥ २.९७.११ ॥

婆罗多心怀深情,感官因悲伤而动荡,他确实是为了见我而来,绝不是别有所图。

2.97.12

अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्।
प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ॥ २.९७.१२ ॥

婆罗多对母亲吉开伊发怒,说了粗暴不悦的话,使父亲平息,然后这位尊贵的婆罗多前来将王国交给我。

2.97.13

प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति।
अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ २.९७.१३ ॥

如今时机已到,婆罗多想要见我们;即使在心中,他也不会对我们做任何不快之事。

2.97.14

विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्।
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ २.९७.१४ ॥

婆罗多何时曾对你做过什么不快之事?或者今日你为何如此恐惧,竟在此怀疑婆罗多?

2.97.15

नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः।
अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ २.९७.१५ ॥

你不可对婆罗多说严厉的话,婆罗多也不会说不悦耳的话。若对婆罗多做了不快之事,我自己便会成为被说不快之言的对象。

2.97.16

कथं नु पुत्राः पितरं हन्युः कस्याञ्चिदापदि।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः ॥ २.९७.१६ ॥

在任何灾难之中,儿子怎会杀害父亲?或者兄弟怎会杀害兄弟?苏弥陀罗之子啊,人怎会成为自己生命的仇敌?

2.97.17

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ २.९७.१७ ॥

若你是为了王国才说这番话,那么我见到婆罗多时,便会说:把王国交给他吧。

2.97.18

उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः।
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ २.९७.१८ ॥

即便我如实地对婆罗多说:“把王国交给他。”婆罗多也会答道:“当然,就照你说的做。”

2.97.19

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः।
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥ २.९७.१९ ॥

德行高尚的兄长如此说道,专心于他利益的罗什曼那因羞愧而仿佛缩进了自己的肢体之中。

2.97.20

तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह।
त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥ २.९७.२० ॥

罗什曼那听了这话,感到羞愧,回答说:“我想,父亲十车王亲自来看你了。”

2.97.21

व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह।
एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ॥ २.९७.२१ ॥

罗摩见罗什曼那羞愧,回答说:“我想,这位臂力强大的人(婆罗多)来这里是为了看望我们。”

2.97.22

अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ।
वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ २.९७.२२ ॥

或者,我确信,他会认为我们二人配享安乐,并念及我们的林中流放,把我们带回家去。

2.97.23

इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्।
पिता मे राघवः श्रीमान् वनादादाय यास्यति ॥ २.९७.२३ ॥

或者,我的父亲光荣的罗怙(Rāghava)也会把这位在极大安乐中长大的毗提诃(悉多)从森林中接走。

2.97.24

एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ।
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २.९७.२४ ॥

英雄啊,那两匹出身高贵、俊美、速度如风的良马,清楚地显现出来了。

2.97.25

स एष सुमहाकायः कम्पते वाहिनीमुखे।
नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः ॥ २.९७.२५ ॥

那头身躯极其庞大的象在军队前方颤抖。它名叫Śatruñjaya(胜敌者),是年老的象,属于智慧的父亲。

2.97.26

न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्।
पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ २.९७.२६ ॥

可是我看不到父亲那把为世人所敬重的白色神圣华盖。啊,大臂者,此处我心生疑惑。

2.97.27

प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ २.९७.२७ ॥

前半句应与后半句相连。

2.97.28

अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जयः।
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ २.९७.२८ ॥

从那棵娑罗树的树梢下来后,战阵的胜利者罗什曼那合掌站在罗摩身旁。

2.97.29

भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति।
समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २.९७.२९ ॥

因为婆罗多也曾下令不得拥挤,军队便在那座山的四周扎营。

2.97.30

अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा।
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ २.९७.३० ॥

那支伊刹婆迦族的军队,满载象、马与战车,沿山的一侧延展一又半由旬,将其环绕而驻扎。

2.97.31

सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्।
प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ २.९७.३१ ॥

在支阿特罗山中,智慧的婆罗多将法置于前,抛开傲慢,率领这支军队,光彩照人,以求安抚罗怙子孙的喜悦者罗摩。