Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.12.1

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति ॥ ६.१२.१ ॥

把榕树的果实拿来。"给您,尊者。""把它剖开。""尊者,已经剖开了。""你在里面看到什么?""尊者,这些细小的种子,像谷粒一样。""亲爱的,把其中一粒剖开。""尊者,已经剖开了。""你在里面看到什么?""尊者,什么也没有。"

Chāndogya 6.12.2

तँ होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति ॥ ६.१२.२ ॥

他说:“孩子,你看不见的那细微之精华,正是这棵大榕树所立之根基。孩子,要有信心。”

Chāndogya 6.12.3

स य एषोऽणिमैतदात्म्यमिदद्ँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.१२.३ ॥

这细微者,以它为自性,便是这一切;它是真实,它是我(ātman);施维多克图啊,你即是它。“尊者,请再为我解说。”他说:“好,孩子。”