奥义书 · Chāndogya 6.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 6.14.1
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ ६.१४.१ ॥
温和的孩子啊,好比有人被蒙住双眼从犍陀罗地方带来,然后被放在远处,他会向东、向北、向南或向西漫游,双眼仍被蒙着,被蒙眼带来,又蒙眼被放开——
Chāndogya 6.14.2
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ ६.१४.२ ॥
若有人解开他的蒙眼布,说:"向这个方向去犍陀罗",那么聪明而博学的人,一村一村地问下去,最终就会到达犍陀罗。这里也是如此:有师父的人便知晓;所需时间只是未得解脱的那段时间;之后他便能到达。
Chāndogya 6.14.3
स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.१४.३ ॥
这精微之本质,即是此一切之自我。它是真实,它是阿特曼;你就是那个,白光啊。当他说"请尊者再次教导我"时,他回答道:"就这样吧,温和的孩子。"