Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 7.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 7.4.1

सङ्कल्पो वाव मनसो भूयान्यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.४.१ ॥

决意确实比意更大。当人决意时,便以意思维;随后推动言语,并借由名称推动此言语。在名称中咒语合为一体,而在咒语中有祭仪。

Chāndogya 7.4.2

तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च तेजश्च तेषाँ सङ्कॢप्त्यै वर्षँ सङ्कल्पते वर्षस्य सङ्कॢप्त्या अन्नँ सङ्कल्पतेऽन्नस्य सङ्कॢप्त्यै प्राणाः सङ्कल्पन्ते प्राणानाँ सङ्कॢप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणाँ सङ्कॢप्त्यै कर्माणि सङ्कल्पन्ते कर्मणां सङ्कॢप्त्यै लोकः सङ्कल्पते लोकस्य सङ्कॢप्त्यै सर्वँ सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ ७.४.२ ॥

这一切都以意愿(saṅkalpa)为唯一归宿,以意愿为本质,并安立于意愿之中。天地决定了;风与虚空决定了;水与火决定了。为了它们的成就,雨水决定;为了雨水的成就,食物决定;为了食物的成就,诸气息决定;为了诸气息的成就,咒语决定;为了咒语的成就,诸行为决定;为了诸行为的成就,世界决定;为了世界的成就,一切决定。这就是意愿。当观想意愿。

Chāndogya 7.4.3

स यः सङ्कल्पं ब्रह्मेत्युपास्ते सङ्कॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति यावत्सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः सङ्कल्पाद्भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.४.३ ॥

若将意愿(saṅkalpa)作为梵来观想,便能得到由意愿所成就的恒常世界;成为恒常、不动,便得到不动的世界。意愿所至之处,他都能随意自在游行。若将意愿作为梵来观想者——(弟子问:)尊者,是否有胜过意愿的东西?(师答:)确实有胜过意愿的东西。(弟子说:)那么,愿尊者告诉我。