奥义书 · Chāndogya 7.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 7.8.1
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते । स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति । बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयाँसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ ७.८.१ ॥
力量(bala)确实比知识更大;一个强者能使百位有知识的人颤抖。当一个人强大时,他便成为起身者;起身后成为服侍者;服侍时成为亲近者;亲近时成为见者、闻者、思者、知者、作者与真知者。大地依力量而立,虚空依力量而立,天依力量而立,山岳依力量而立,诸神与人依力量而立,牲畜与飞鸟、草木、猛兽,乃至昆虫、飞蛾与蚂蚁,皆依力量而立;世界依力量而立。应崇拜力量。
Chāndogya 7.8.2
स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.८.२ ॥
若有人以力量为梵而崇拜,力量所及之处,他便有随意游行的自由。若有人以力量为梵而崇拜。(那罗陀:)尊者啊,有比力量更大的吗?(萨那特昆马罗:)有比力量更大的。愿尊者告诉我。