阿闼婆吠陀 · 颂诗(Sūkta) 1.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.13.1
नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥ १.१३.१ ॥
向闪电致敬,向雷鸣致敬。向石头(金刚杵)致敬,你用它投向Dūḍāśa。
1.13.2
नमस्ते प्रवतो नपाद्यतस्तपः समूहसि ।
मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥ १.१३.२ ॥
向你致敬,从高处所生者;你聚集热力。愿你怜悯我们的身体,为我们的子孙带来福祉。
1.13.3
प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः ।
विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥ १.१३.३ ॥
向你致敬,从高处所生者。向你致敬;我们向这灼热的武器献上。我们知道你至高的居所,它是隐秘的:你是安放在大海之中的中心。
1.13.4
यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।
सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥ १.१३.४ ॥
你,诸神把你造成箭矢,使你勇猛以便击打:你在祭礼中受到颂扬,愿你怜悯我们。女神啊,向你致敬。