Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 1.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.33.1

हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥ १.३३.१ ॥

金色、清净、能净化的水——萨维特里在其中诞生,阿耆尼在其中诞生;愿这些如胎儿般怀有阿耆尼的金色之水对我们吉祥而安适。

1.33.2

यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥ १.३३.२ ॥

国王伐楼那在其中行走,俯视人间的真与伪——愿这些如胎儿般怀有阿耆尼的金色之水对我们吉祥而安适。

1.33.3

यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥ १.३३.३ ॥

诸神在天上为其备下份额,它们在虚空中以多种形态存在——愿这些如胎儿般怀有阿耆尼的金色之水对我们吉祥而安适。

1.33.4

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥ १.३३.४ ॥

水啊,请以吉祥的目光看我,以吉祥的身体触碰我的肌肤。滴落酥油、清净而能净化的水啊——愿它们对我们吉祥而安适。