阿闼婆吠陀 · 颂诗(Sūkta) 1.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.9.1
अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।
इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥ १.९.१ ॥
愿诸婆苏在此人中确立财富;愿因陀罗、补善、伐楼那、密多罗与阿耆尼亦然。愿诸阿底提耶与一切毗首德瓦使他安立于上界光明之中。
1.9.2
अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।
सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥ १.९.२ ॥
诸神啊,愿此人的方向有光明;愿太阳、阿耆尼或黄金亦然。愿我们的敌人降于低处;使此人升上至高的天界。
1.9.3
येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।
तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥ १.९.३ ॥
耆多毗陀,以你为因陀罗聚集滋养之物的那至上梵咒,阿耆尼啊,请在此使此人增长;使他在同族中居于首位。
1.9.4
ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।
सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥ १.९.४ ॥
我取其祭祀与光辉;阿耆尼啊,并取财富之增长与他们的心志。愿我们的敌人降于低处;使此人升上至高的天界。