阿闼婆吠陀 · 颂诗(Sūkta) 19.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.19.1
मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.१ ॥
密特拉从大地升起。我为你们引导那座城向前。你们进入其中,深入其内;愿它赐予你们庇护与铠甲。
19.19.2
वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.२ ॥
风神婆由中空升起。我为你们引导那座城向前。你们进入其中,深入其内;愿它赐予你们庇护与铠甲。
19.19.3
सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.३ ॥
太阳从天空升起。我为你们引导那座城向前。你们进入其中,深入其内;愿它赐予你们庇护与铠甲。
19.19.4
चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.४ ॥
月亮与星宿一同升起。我为你们引导那座城向前。你们进入其中,深入其内;愿它赐予你们庇护与铠甲。
19.19.5
सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.५ ॥
苏摩与草药一同升起。我为你们引导那座城向前。你们进入其中,深入其内;愿它赐予你们庇护与铠甲。
19.19.6
यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.६ ॥
祭祀与布施(dakṣiṇā)一同升起。我为你们引导那座城向前。你们进入其中,深入其内;愿它赐予你们庇护与铠甲。
19.19.7
समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.७ ॥
大海随诸河而出。我引导你们走向那座城;进入其中,好好进入。愿它赐予你们庇护与铠甲。
19.19.8
ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.८ ॥
梵随梵行者而出。我引导你们走向那座城;进入其中,好好进入。愿它赐予你们庇护与铠甲。
19.19.9
इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.९ ॥
因陀罗以威力而出。我引导你们走向那座城;进入其中,好好进入。愿它赐予你们庇护与铠甲。
19.19.10
देवा अमृतेनोदक्रामंस्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.१० ॥
诸神以不死而出。我引导你们走向那座城;进入其中,好好进入。愿它赐予你们庇护与铠甲。
19.19.11
प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥ १९.१९.११ ॥
生主随众生而出。我引导你们走向那座城;进入其中,好好进入。愿它赐予你们庇护与铠甲。