Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.3.1

दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः ।
यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि ॥ १९.३.१ ॥

噢,阿耆尼,知晓一切生灵者!从天、从地、从空界、从树木与草药之上,无论你驻留于何处,受到赞颂而欢喜,请来到我们这里。

19.3.2

यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः ।
अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥ १९.३.२ ॥

噢,阿耆尼,你在水中、在森林中、在草药中、在牲畜中以及在水内的威力,请将所有这些形体聚集于你身上,并与它们一同,作为赐予财富而永不衰竭者,来到我们这里。

19.3.3

यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश ।
पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥ १९.३.३ ॥

噢,阿耆尼,你在诸神中的天界威力,你进入祖先之中的形体,以及你在人类中传播的滋养,愿借此在我们之中确立财富。

19.3.4

श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् ।
यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने ॥ १९.३.४ ॥

我以言辞与话语,向那有听觉之耳、洞见的智者、可被认识者,前来求取赐予。恐惧从何而来,愿我们从那里获得无惧。噢,阿耆尼,请平息诸神的愤怒。