Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.32.1

शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।
दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥ १९.३२.१ ॥

有百节、难以折断、有千叶、能使人渡过的吉祥草(darbha);这猛烈的草药,我为你系上,以求长寿。

19.32.2

नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।
यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति ॥ १९.३२.२ ॥

没有人剃他的头发,也没有人打他的胸口;为他,那叶未断的darbha草赐予庇护。

19.32.3

दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।
त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥ १९.३२.३ ॥

哦草药,你的根须在天上,你坚立在大地上;以你这千节之草,我们增长寿命。

19.32.4

तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत ।
त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥ १९.३२.४ ॥

它穿透了三重天和这三重地;借你,我压住恶心之人的舌头与他们的言辞。

19.32.5

त्वमसि सहमानोऽहमस्मि सहस्वान् ।
उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥ १९.३२.५ ॥

你是克服者,我是强大者;我们二人都成为胜利者,让我们战胜敌对者。

19.32.6

सहस्व नो अभिमातिं सहस्व पृतनायतः ।
सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥ १९.३२.६ ॥

战胜对我们的敌意攻击,战胜寻求战斗的人;战胜一切恶心之人,为我造就众多善心的朋友。

19.32.7

दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित् ।
तेनाहं शश्वतो जनामसनं सनवानि च ॥ १९.३२.७ ॥

以诸神所生、立于天上的吉祥草,常常如此;借此我将获得并征服众人。

19.32.8

प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।
यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥ १९.३२.८ ॥

啊吉祥草,使我为婆罗门与刹帝利、首陀罗与雅利安所爱;为我们所欲者,并为一切见者所爱。

19.32.9

यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च ।
यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥ १९.३२.९ ॥

生而坚固大地、支撑虚空与天空的那位;承载他的时候,罪恶确实认识了他——这吉祥草对我们来说就是婆罗那;白日里又是谁?

19.32.10

सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव ।
स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥ १९.३२.१० ॥

杀敌者,有百茎,战胜者,在草药中成为第一。愿这吉祥草从各方保护我们;借此我们战胜敌对的军队。