Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.39.1

ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि ।
तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥ १९.३९.१ ॥

愿护佑的神库绍塔从雪山而来。消灭一切热病,也消灭所有的耶图达尼。

19.39.2

त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः ।
नद्यायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥ १९.३९.२ ॥

哦库绍塔,你有三个名字。不要毁灭,不要受伤。愿这个人不受伤害,我为他在早晨、傍晚和白天向你宣告。

19.39.3

जीवला नाम ते माता जीवन्तो नाम ते पिता ।
नद्यायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥ १९.३९.३ ॥

你的母亲名叫耆跋罗,父亲名叫耆version。愿这个人不受伤害,我为他在早晨、傍晚和白天向你宣告。

19.39.4

उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।
नद्यायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥ १९.३९.४ ॥

这是草药中最好的,如同行走之物中的公牛,如同犬足兽中的虎。愿这个人不受伤害,我为他在早晨、傍晚和白天向你宣告。

19.39.9

त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि ।
त्रिर्जातो विश्वदेवेभ्यः ।
स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः ।
तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः ।
यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः ॥ १९.३९.९ ॥

为Śāmbu们三次生成,为Aṅgiras们三次生成,为Āditya们三次生成,为Viśvadeva们三次生成。那枯需是一切的良药,与苏摩同在。在第三处,从此处于天上,有神灵之居的菩提树。那里有不死的景象;由此生出了枯需。那枯需是一切的良药,与苏摩同在。一艘金色的船,系着金索,在天上行进。那里有不死的景象;由此生出了枯需。那枯需是一切的良药,与苏摩同在。船只滑落之处,喜马拉雅的峰顶所在之处,那里有不死的景象;由此生出了枯需。那枯需是一切的良药,与苏摩同在。古代的伊刹婆伽们所知的,哦枯需,渴望你的人所知的,或瓦苏们所知的,或阿特斯耶所知的,凭着此,你是一切的良药。

19.39.10

शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः ।
तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥ १९.३९.१० ॥

头痛、三日疟、每日热以及一年一发的热病——哦,无所不摧的力量,驱逐那向下流动的热病!