阿闼婆吠陀 · 颂诗(Sūkta) 20.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.12.1
उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥ २०.१२.१ ॥
为了荣耀,并在战斗之中,哦,Vasiṣṭha,以神圣的祷词颂扬因陀罗。那以其力量延展万物的,正是倾听我这努力者之言语的神。
20.12.2
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।
नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥ २०.१२.२ ॥
哦,因陀罗,当勇士们在言辞的竞争中激动时,我发出如神族般的声音。世人之中无人知晓自己的寿命;求你将我们渡过那些罪愆。
20.12.3
युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।
वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥ २०.१२.३ ॥
我以两匹黄褐色的骏马驾上寻牛之车;神圣的祷词近前,使他欢喜。因陀罗以其伟大分开了那两界,无人抵挡,他击杀了阻碍者。
20.12.4
आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र ।
याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥ २०.१२.४ ॥
水也增长,如同不孕之牛;赞颂者得以领受你的天理。哦,因陀罗,请如风一般,带着你的马群来到我们这里;你正以你的行动分配财富。
20.12.5
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥ २०.१२.५ ॥
愿那些陶醉之物使你欢喜,哦,因陀罗,强大而慷慨的神,为了歌者。你独自在众神之中向凡人分配;哦,英雄,在这次榨取苏摩时欢喜吧。
20.12.6
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥ २०.१२.६ ॥
诗人婆悉吒以颂歌赞颂公牛般、手持金刚杵的因陀罗。愿他受赞后赐予我们英雄之子与牛群;愿你们以吉祥常常护佑我们。
20.12.7
ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।
युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥ २०.१२.७ ॥
正直者(Ṛjīṣī)、执金刚者、公牛、战胜强敌者、威猛之王、诛杀弗栗多者、饮苏摩者因陀罗:愿他套上他的两匹栗色骏马,向此而来,在午间的压榨祭中欢喜。