阿闼婆吠陀 · 颂诗(Sūkta) 20.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.17.1
अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।
परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥ २०.१७.१ ॥
我的思想寻得天光,直奔因陀罗而去;所有渴望者一同赞颂他。如同妻子拥抱丈夫,她们为求助而从四面拥抱这位慷慨的、光明的因陀罗。
20.17.2
न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय ।
राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥ २०.१७.२ ॥
摧山的因陀罗啊,我的心不离开你;被多人呼唤的啊,愿我的渴望只安住于你。奇妙者啊,请如国王般坐在这圣草之上;愿这苏摩为你而饮。
20.17.3
विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते ।
तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥ २०.१७.३ ॥
因陀罗驱散贫乏与饥饿;那位慷慨者是财富与资财的主宰。在他的斜坡上流淌着这七条河,它们增长着这位强壮公牛的力量。
20.17.4
वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः ।
प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥ २०.१७.४ ॥
如同鸟儿落在枝叶优美的树上,那令人欢悦的苏摩滴落在坐于杯中的因陀罗身上。他们强大的军队闪耀前行;为了摩奴,它获得了天界之光,那尊贵的光明。
20.17.5
कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत् ।
न तत्ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥ २०.१७.५ ॥
如同赢家在赌局中收取全部赌注,那慷慨的因陀罗赢得了太阳。慷慨者啊,没有别人能追随你的威力,无论是古老的还是新近的。
20.17.6
विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा ।
यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥ २०.१७.६ ॥
摩ghavan遍布每个部族;公牛俯视众人的言语。在其祭压之中,帝释确实欢喜,他以烈性苏摩战胜欲战之敌。
20.17.7
आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् ।
वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥ २०.१७.७ ॥
如诸水汇向河流,诸苏摩也汇向因陀罗,如沟渠流向湖泊。智者们在他的大座上使他增长,犹如天雨以天赐之恩使大麦生长。
20.17.8
वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः ।
स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥ २०.१७.८ ॥
他如愤怒的公牛冲入虚空;使这些水成为雅利安之妻的那位摩ghavan,为压榨苏摩者、迅速施予者,为献供的摩奴,获得了光明。
20.17.9
उज्जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् ।
वि रोचतामरुषो भानुना शुचिः स्वर्न शुक्रं शुशुचीत सत्पतिः ॥ २०.१७.९ ॥
愿斧与光明一同升起;愿它如往昔那样,成为律法的易挤乳之牛。愿这赤而纯净者以光辉照耀,如太阳光明闪耀;愿善主闪耀。
20.17.10
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥ २०.१७.१० ॥
众所呼唤者啊,愿我们借牛越过恶意之念,借大麦越过一切饥饿。愿我们与诸王同为首位,赢得财富;愿我们以共同的力量取胜。
20.17.11
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥ २०.१७.११ ॥
愿布利诃没底从后、从上、从下护佑我们,免于恶人。愿因陀罗从前方和中间护佑我们;愿朋友为朋友赐予财富。
20.17.12
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥ २०.१७.१२ ॥
布利诃没底啊,你与因陀罗是天上与地上财富的主宰。请赐予赞颂者与歌唱者财富;愿你们众神常以吉祥护佑我们。