アタルヴァ・ヴェーダ · スークタ 20.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.18.1
वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर्जरन्ते ॥ २०.१८.१ ॥
インドラよ、あなたを求める私たちはあなたの友である。同様にカンヴァたちは讃歌であなたを称える。
20.18.2
न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ ।
तवेदु स्तोमं चिकेत ॥ २०.१८.२ ॥
金剛を持つ者よ、他の誰でもなく、新たな行いの中で称えられたのはあなたである。その讃歌をこそ彼は知る。
20.18.3
इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
यन्ति प्रमादमतन्द्राः ॥ २०.१८.३ ॥
神々はソーマを搾る者を望む。彼らは眠りを求めない。倦むことなく、怠慢へと赴く。
20.18.4
वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
विद्धि त्वस्य नो वसो ॥ २०.१८.४ ॥
インドラよ、あなたを求める私たちはあなたを讃える。雄牛よ、これを我らに知らせよ。富を与える者よ、我らを知りたまえ。
20.18.5
मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने ।
त्वे अपि क्रतुर्मम ॥ २०.१८.५ ॥
我らを誹る者、言葉を弄する敵、吝嗇な者に渡すな。あなたの中にも私の意図がある。
20.18.6
त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
त्वया प्रति ब्रुवे युजा ॥ २०.१८.६ ॥
あなたは広大な鎧であり、前線の戦士である。ヴリトラを討つ者よ、あなたを味方として私は応じて呼びかける。