Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.19.1

वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
इन्द्र त्वा वर्तयामसि ॥ २०.१९.१ ॥

为杀伤弗栗多,为力量,为战胜军队——因陀罗啊,我们呼唤你。

20.19.2

अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
इन्द्र कृण्वन्तु वाघतः ॥ २०.१९.२ ॥

百业的因陀罗啊,愿你的心意与目光良好地转向我们;因陀罗啊,愿祭司们使之如此。

20.19.3

नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।
इन्द्राभिमातिषाह्ये ॥ २०.१९.३ ॥

百业的因陀罗啊,我们以一切颂歌呼唤你的名号——因陀罗啊,为战胜敌对的仇敌。

20.19.4

पुरुष्टुतस्य धामभिः शतेन महयामसि ।
इन्द्रस्य चर्षणीधृतः ॥ २०.१९.४ ॥

以那位被众人呼唤的因陀罗的百种力量,我们赞颂他——他是支撑人类者。

20.19.5

इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।
भरेषु वाजसातये ॥ २०.१९.५ ॥

为杀伤弗栗多,我呼唤被众人呼唤的因陀罗;在战斗中,为获得财富与食物。

20.19.6

वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।
इन्द्र वृत्राय हन्तवे ॥ २०.१९.६ ॥

百业的因陀罗啊,愿你在争战中获胜;我们呼唤你,因陀罗啊,为杀伤弗栗多。

20.19.7

द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।
इन्द्र साक्ष्वाभिमातिषु ॥ २०.१९.७ ॥

因陀罗啊,在荣耀中、在军队的战斗中、在对军队的胜利中、在声名中,赐予我们战胜敌对之人的胜利!