Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.23.1

येन वेहद्बभूविथ नाशयामसि तत्त्वत् ।
इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥ ३.२३.१ ॥

你所受阻碍之物,我们从你身上除去;此物我们远远地放置在你之外的别处。

3.23.2

आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।
आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥ ३.२३.२ ॥

愿那胎儿进入你的子宫,如箭入箭囊。愿英雄在此诞生;愿你十个月大的儿子降生。

3.23.3

पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् ।
भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥ ३.२३.३ ॥

生育男孩;愿男子随之而生。你将成为众子之母,生育已生者,也生育将生者。

3.23.4

यानि भद्राणि बीजान्यृषभा जनयन्ति च ।
तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥ ३.२३.४ ॥

凭借公牛所生的那些吉祥之种,你去获得一子;你要成为善于分娩的乳牛。

3.23.5

कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते ।
विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥ ३.२३.५ ॥

为你,我行此生主之法;愿胎儿进入你的子宫。女子啊,你去获得一子;对于那对你吉祥的人,你也要吉祥。

3.23.6

यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ।
तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥ ३.२३.६ ॥

愿那些以天为父、以地为母、以海为根的神圣草药,为你获得一子而护佑你。