Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.28.1

एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः ।
यत्र विजायते यमिन्यपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥ ३.२८.१ ॥

她一一由造化之力与之同时生成,在造物者创造万形之牛的地方。在不合时令之时,耶米尼降生之处,她咆哮而闪耀,消耗着牲畜。

3.28.2

एषा पशून्त्सं क्षिणाति क्रव्याद्भूत्वा व्यद्वरी ।
उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात् ॥ ३.२८.२ ॥

她将牲畜彻底耗尽,化为食肉撕咬者。应把她交给婆罗门,如此她便会和悦而吉祥。

3.28.3

शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा ।
शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥ ३.२८.३ ॥

愿你为男人、为牛、为马带来吉祥;为这一切、为这田地带来吉祥;愿你在此为我们带来吉祥。

3.28.4

इह पुष्टिरिह रस इह सहस्रसातमा भव ।
पशून् यमिनि पोषय ॥ ३.२८.४ ॥

在此有滋养,在此有精华;在此你要成为千人中最慷慨的施与者。耶米尼啊,请滋养牲畜。

3.28.5

यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥ ३.२८.५ ॥

耶米尼已经来到那个世界:在那里,善心且行善的人们舍弃自身的疾病而欢喜。愿她不伤害我们的男人与牲畜。

3.28.6

यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः ।
तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥ ३.२८.६ ॥

耶米尼已经来到那个世界,那里有善心者与行善者在阿耆尼318 火祭中所献的祭品,那个世界。愿她不伤害我们的男人与牲畜。