Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.14.1

अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे ।
तेन देवा देवतामग्र आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥ ४.१४.१ ॥

无生者因炽热而生于阿耆尼;他于太初见到了他的生父。借此,诸神起初获得了神性;借此,纯净者攀上了高处。

4.14.2

क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः ।
दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥ ४.१४.२ ॥

与阿耆尼一同前行,双手持着天界的主宰;抵达天之背,得到天界之光,与诸神相聚吧。

4.14.3

पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् ।
दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥ ४.१४.३ ॥

我从大地之背升至虚空,从虚空升至天界;从天界之背,我抵达了天界之光。

4.14.4

स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी ।
यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥ ४.१४.४ ॥

渴望天界者不犹豫;他们升至天界,直达两界。善知一切承持之祭祀的智者,已将它展开。

4.14.5

अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषाणाम् ।
इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥ ४.१४.५ ॥

啊阿耆尼,前行吧——诸神中的首位,神与人的眼睛。愿与婆利古人和睦共祭、渴望献祭的施祭者,平安地升入天界。

4.14.6

अजमनज्मि पयसा घृतेन दिव्यं सुपर्णं पयसं बृहन्तम् ।
तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥ ४.१४.६ ॥

我以乳与酥油涂抹无生者——那天上的、有美翼的、滋养的、伟大的。愿借他前往善行之界,攀升至至高的天界。

4.14.7

पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् ।
प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥ ४.१४.७ ॥

用五指、以长柄勺取出这五份米饭供品;将此供品分为五份摆放。把未出生之羊的头放在东方;把它的右侧放在南方。

4.14.8

प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् ।
ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥ ४.१४.८ ॥

把它的臀部放在西方;把左侧放在北方。在上方放置未出生之羊的脊背;在固定的方位放置腹部,在虚空中放置从中间算起的中段。

4.14.9

शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् ।
स उत् तिष्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥ ४.१४.९ ॥

用熟皮包裹煮熟的未出生之羊;它是具备一切形态、备齐诸肢的全形之物。愿它起身,走向至高的天界;愿它以四足立于诸方。