Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.23.1

ओते मे द्यावापृथिवी ओता देवी सरस्वती ।
ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति ॥ ५.२३.१ ॥

天地织入我身,女神萨拉斯瓦蒂也已织入;因陀罗与阿耆尼亦织入我身——愿他们碾碎蠕虫。

5.23.2

अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि ।
हता विश्वा अरातय उग्रेण वचसा मम ॥ ५.२३.२ ॥

因陀罗啊,财富之主,击杀这孩子的蠕虫;以我猛烈的言辞,一切敌人都已被杀。

5.23.3

यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति ।
दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि ॥ ५.२३.३ ॥

爬行于双眼周围、爬行于鼻孔周围、进入牙齿中间的那条蠕虫——我们碾碎它。

5.23.4

सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ ।
बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥ ५.२३.४ ॥

两条形状相同,两条形状不同,两条黑色,两条红色;褐者与褐耳者,秃鹫与柯卡——它们都已被杀。

5.23.5

ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः ।
ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि ॥ ५.२३.५ ॥

白腰的蠕虫,黑色白臂的蠕虫,以及任何形态各异的蠕虫——这些蠕虫我们碾碎。

5.23.6

उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।
दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ॥ ५.२३.६ ॥

太阳从东方升起——为一切所见,灭除不可见者;击打可见与不可见者,消灭一切蠕虫。

5.23.7

येवाषासः कष्कषास एजत्काः शिपवित्नुकाः ।
दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥ ५.२३.७ ॥

耶瓦沙、卡什卡沙与颤动的希帕维特努卡蠕虫——愿可见的虫被杀死,愿不可见的虫也被杀死。

5.23.8

हतो येवाषः क्रिमीणां हतो नदनिमोत ।
सर्वान् नि मष्मषाकरं दृषदा खल्वामिव ॥ ५.२३.८ ॥

众虫中的耶瓦沙已被杀死,那达尼摩也已被杀死。将它们全部碾碎,如同以石头捣碎臼。

5.23.9

त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् ।
शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥ ५.२३.९ ॥

对那三头、三峰、斑纹的白色蠕虫——我折断它的脊背,也斩断它的头。

5.23.10

अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥ ५.२३.१० ॥

如阿特里,哦,蠕虫们,我杀你们;如迦纳瓦,如阁摩陀尼。以阿伽斯蒂亚的梵咒,我将蠕虫彻底碾碎。

5.23.11

हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।
हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥ ५.२३.११ ॥

蠕虫之王已被杀死,它们的首领也已被杀死。母亲被杀,蠕虫被杀;兄弟被杀,姐妹被杀。

5.23.12

हतासो अस्य वेशसो हतासः परिवेशसः ।
अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥ ५.२३.१२ ॥

它内在的居者已被杀死,周围的居者也已被杀死;那些细小的蠕虫,全部都被杀死了。

5.23.13

सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् ।
भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥ ५.२३.१३ ॥

我以石头击碎所有虫子、所有雌虫的头;以火焚烧它们的口。