アタルヴァ・ヴェーダ · スークタ 6.123
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.123.1
एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः ।
अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥ ६.१२३.१ ॥
同座の者たちよ、ジャータヴェーダスが運んできたこの宝をあなたがたに与える。供犠主は安泰のうちに後に続く。最高の天空で彼を知れ。
6.123.2
जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र ।
अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥ ६.१२३.२ ॥
最高の天空で彼を知れ、神々と同座の者たちよ。ここで世界を知れ。供犠主は安泰のうちに後に続く;彼のために祭祀と公益の行いを明らかにせよ。
6.123.3
देवाः पितरः पितरो देवाः ।
यो अस्मि सो अस्मि ॥ ६.१२३.३ ॥
神々は祖霊であり、祖霊は神々である。私であるもの、それが私である。
6.123.4
स पचामि स ददामि ।
स यजे स दत्तान् मा यूषम् ॥ ६.१२३.४ ॥
私が煮るもの、私が与えるもの。私が供犠するもの、そして与えられたもの。どうか私を守ってくれ。
6.123.5
नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।
विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥ ६.१२३.५ ॥
王よ、天にしっかりと立て。ここにあるものもそこに堅く立て。王よ、我らの公益の行いを知れ。神よ、好意を持つ者となれ。