Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 8.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.4.1

इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥ ८.४.१ ॥

因陀罗与苏摩啊,烧灼罗刹,压制它,使它倒下。你们二位如公牛般强壮,粉碎并焚尽那些在黑暗中滋长的无知者;驱逐被杀者,磨利那些吞噬者。

8.4.2

इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥ ८.४.२ ॥

因陀罗与苏摩啊,烧灼那怀恶意的恶人,如在火中烧热祭器。对憎恨梵语的、食肉的、目光凶恶的金弥丁,赐予无法逃脱的仇恨。

8.4.3

इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।
यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥ ८.४.३ ॥

因陀罗与苏摩啊,作恶者藏身于无始的黑暗之中;彻底刺穿他们,使其中无一人再起。愿这愤怒为你们二位的力量而存在。

8.4.4

इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥ ८.४.४ ॥

因陀罗与苏摩啊,从天上转动霹雳,从大地为作恶者带来毁灭。从群山中锻造一件朝向太阳的武器,以它你们二位降伏那不断增长的罗刹。

8.4.5

इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥ ८.४.५ ॥

因陀罗与苏摩啊,在天空四周转动在火中烧热、击石的投射之器!以灼热不朽的兵器向下刺入食人者的肋骨,使他们无声离去。

8.4.6

इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥ ८.४.६ ॥

啊因陀罗与苏摩,愿此念从四面环绕你们,如车上两匹迅捷的马。我以智慧送给你们的这些祈请,这些神圣的咒语,请如两位人王那样激发它们。

8.4.7

प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।
इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥ ८.४.७ ॥

啊因陀罗与苏摩,请记起并以你们穿刺的打击击倒那些恶意的、弯曲的罗刹。愿作恶者之路不得顺利;凡是恶意之人,任何想要伤害我的人。

8.4.8

यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥ ८.४.८ ॥

凡见我以纯朴之心行走,便以虚妄之言诽谤我的人,愿他如网中被擒之水,受缚。啊因陀罗,愿他成为虚妄者的言说者。

8.4.9

ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।
अहये वा तान् प्रददातु सोम आ वा दधातु निर्ऋतेरुपष्ठे ॥ ८.४.९ ॥

那些使赞美纯朴者迷途的人,以及以自身之力玷污善的人——愿苏摩将他们交给蛇,或置于尼旅帝的膝上。

8.4.10

यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् ।
रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥ ८.४.१० ॥

啊阿耆尼,凡欲夺取我们食物精华的人,凡是马、牛与身体的敌人,窃贼、行窃者——愿他渺小地坠落;愿他在身体与子嗣中衰败。

8.4.11

परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।
प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥ ८.४.११ ॥

愿他与其身体和子嗣远离,居于三地之下。诸神啊,愿那日夜欲伤害我者的名声枯萎。

8.4.12

सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।
तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥ ८.४.१२ ॥

真与假两种言语,对于有智慧的人是清楚的;它们彼此相争。二者之中,真实而更正直者,苏摩确实护佑之;虚假者,他击杀之。

8.4.13

न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।
हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥ ८.४.१३ ॥

苏摩确实不驱使邪曲之人,也不驱使以虚伪执掌权柄的刹帝利。他击杀罗刹,击杀说谎者;二者都躺在因陀罗的网中。

8.4.14

यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने ।
किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निर्ऋथं सचन्ताम् ॥ ८.४.१४ ॥

若我是以虚假为神者,或徒然呼唤神明,那么,啊阿耆尼,遍知者,你为何对我们发怒?愿那些说欺诈之言者,附着于毁灭。

8.4.15

अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य ।
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥ ८.४.१५ ॥

若我是妖术者(夜叉),愿我今日便死,或愿风曾烧灼过人。那无端称我为妖术者之人,愿他与十位勇士分离。

8.4.16

यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह ।
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥ ८.४.१६ ॥

凡自称“我是食人鬼(yātudhāna)”,或自称“我是罗刹 Śicira”的诡诈之人,愿因陀罗以大击将他打倒;愿他在一切众生之中堕为最下贱者。

8.4.17

प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना ।
वव्रमनन्तमव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥ ८.४.१७ ॥

那夜里像猫头鹰(khargala)般隐藏身躯前行的奸诈之女:愿她像无尽的穴居之物一样坠落;愿碾石以轰响击打罗刹女。

8.4.18

वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन् ।
वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥ ८.४.१८ ॥

诸摩录多啊,请分立,在族群中寻找,抓住罗刹们并将他们一并碾碎;那些化作飞鸟夜间飞行的,那些在祭祀中与神为敌的。

8.4.19

प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि ।
प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥ ८.४.१९ ॥

因陀罗啊,从天上投下经苏摩磨砺的石头;摩ghavan啊,请将它一并磨利;从东、从西、从下、从北,以山岳打击罗刹。

8.4.20

एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।
शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥ ८.४.२० ॥

看哪,那些狗形罗刹飞来,欲伤害不可战胜的因陀罗;大力者为谗毁者磨利他的杀器,必定向诡术之人投掷雷电。

8.4.21

इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥ ८.४.२१ ॥

因陀罗成为了法术施行者的征服者;针对那些欲攻击搅动祭供者的人,愿强大的因陀罗前来,如斧劈林、如器破物,击碎罗刹。

8.4.22

उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥ ८.४.२२ ॥

击杀猫头鹰的法术、大猫头鹰的法术;狗的法术与古卡鸟的法术;鹰的法术与秃鹫的法术。因陀罗啊,如石击碎罗刹吧!

8.4.23

मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः ।
पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥ ८.४.२३ ॥

愿罗刹不以芦苇之法术靠近我们;愿那些四处寻觅的成双者被驱逐。愿大地从地上之物与苦难中守护我们;愿虚空从天上之物中守护我们。

8.4.24

इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥ ८.४.२४ ॥

因陀罗啊,击杀男性的法术者,也击杀借幻术摇曳的女人。愿颈项扭曲的愚昧诸神灭亡;愿他们看不见你升起的太阳。

8.4.25

प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥ ८.४.२५ ॥

向前看,仔细看;因陀罗与苏摩,保持警醒。向罗刹投掷致命的打击,向法术者投掷雷电。