マハーバーラタ · 章 1.131
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.131.1
ज्येष्ठाऽनुज्येष्ठतां तेषां नामानि च पृथक्पृथक् ।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्यात्प्रकीर्तय ॥ १.१३१.१ ॥
長幼の順に、ドリタラーシュトラの息子たちの名を一人ずつ語ってください。
1.131.2
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा ।
दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥ १.१३१.२ ॥
ドゥルヨーダナ、ユユツ、王よ、ドゥフシャーサナ、またドゥフサハ、ドゥフシャラ、ジャラサンダ、サマ、サハ。
1.131.3
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ।
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥ १.१३१.३ ॥
ヴィンダとアヌヴィンダ、ドゥルダルシャ、スバーフ、ドゥシュプラダルシャナ、ドゥルマルシャナ、ドゥルムカ、ドゥシュカルナ、そしてカルナもまた。
1.131.4
विविंशतिर्विकर्णश्च शलः सत्वः सुलोचनः ।
चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥ १.१३१.४ ॥
ヴィヴィンシャティ、ヴィカルナ、シャラ、サットヴァ、スロチャナ、チトラとウパチトラ、チトラークシャ、チャールチトラ、シャラーサナ。
1.131.5
दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः ।
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥ १.१३१.५ ॥
ドゥルマダ、ドゥルヴィガーハ、ヴィヴィトス、ヴィカターナナ、ウールナーバ、スナーバ、またナンダとウパナンダ。
1.131.6
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ।
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः ॥ १.१३१.६ ॥
チトラバーナ、チトラヴァルマー、スヴァルマー、ドゥルヴィモーチャナ、アヨーバーフ、マハーバーフ、チトラーンガ、チトラクンダラ。
1.131.7
भीमवेगो भीमबलो बलाकी बलवर्धनः ।
उग्रायुधः सुषेणश्च कुण्डधारो महोदरः ॥ १.१३१.७ ॥
恐るべき速さのバヒーマヴェーガ、恐るべき力のバヒーマバラ、バラーキー、力を増す者、猛烈な武器の者、スシェーナ、クンダダーラ、そしてマホーダラ。
1.131.8
चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा ।
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥ १.१३१.८ ॥
チトラーユダ、ニシャンギー、パーシー、ヴリンダーラカ、ドリダヴァルマー、ドリダクシャトラ、ソーマキールティ、そしてアヌーダラ。
1.131.9
दृढसन्धो जरासन्धः सत्यसन्धः सदः सुवाक् ।
उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः ॥ १.१३१.९ ॥
ドリダサンダ、ジャラーサンダ、サティヤサンダ、サダ、スヴァーク、ウグラシュラヴァー、ウグラセーナ、将軍、そしてドゥシュパラージャヤ。
1.131.10
अपराजितः कुण्डशायी विशालाक्षो दुराधरः ।
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥ १.१३१.१० ॥
アパラージタ、クンダシャーyī、ヴィシャーラークシャ、ドゥラーダラ、ドリダハスタ、スハスタ、ヴァータヴェーガ、そしてスヴァルチャス。
1.131.11
आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि ।
कवची क्रथनः कुण्डी कुण्डधारो धनुर्धरः ॥ १.१३१.११ ॥
アーディティヤケートゥ、バフヴァーシー、ナーガダッタ、先導者アグラヤーイーも、カヴァチー、クラタナ、クンディー、クンダダーラ、そして弓手ダヌルダラ。
1.131.12
उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः ।
अभयो रौद्रकर्मा च तथा दृढरथाश्रयः ॥ १.१३१.१२ ॥
勇猛なウグラとバヒーマラタの二人の英雄、ヴィーラバーフ、アローループァ、アバヤ、ラウドラカルマー、そしてドリダラタァーシュラヤ。
1.131.13
अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः ।
प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान् ॥ १.१३१.१३ ॥
アナーダルシャ、クンダベーディ、ヴィラーヴィー、チトラクンダラ、プラマタ、プラマーティー、ディールガローマ、そして力あるヴィールヤヴァーン。
1.131.14
दीर्घबाहुर्महाबाहुर्व्यूढोराः कनकध्वजः ।
कुण्डाशी विराजाश्चैव दुःशला च शताधिका ॥ १.१३१.१४ ॥
ディールガバーフ、マハーバーフ、ヴィューダョーラスカ、カナカドヴァジャ、クンダーシー、ヴィラージャー、そしてドゥフシャラー。百人を超える。
1.131.15
इति पुत्रशतं राजन्कन्या चैव शताधिका ।
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप ॥ १.१३१.१५ ॥
このように、王よ、百人の息子と一人の娘がいた。王よ、名前の順に従って生まれた順序を知れ。
1.131.16
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ।
सर्वे वेदविदश्चैव सर्वे सर्वास्त्रकोविदाः ॥ १.१३१.१६ ॥
彼らは皆、大戦車兵であり英雄であり、戦いに熟達し、ヴェーダに通じ、あらゆる武器に精通していた。
1.131.17
सर्वेषामनुरूपाश्च कृता दारा महीपते ।
धृतराष्ट्रेण समये परीक्ष्य विविवन्नृप ॥ १.१३१.१७ ॥
地の主よ、ドリタラーシュトラは時を見て、すべての者にふさわしい妻を選び、吟味の上で婚礼を執り行わせた。
1.131.18
दुःशलां चापि समये धृतराष्ट्रो नराधिपः ।
जयद्रथाय प्रददौ विधिना भरतर्षभ ॥ १.१३१.१८ ॥
バラタの牡牛よ、人の王ドリタラーシュトラは時を見て、儀礼に従ってドゥフシャラーをジャヤドラタに与えた。
1.131.19
इति पुत्रशतं राजन्युयुत्सुश्च शताधिकः ।
कन्यका दुःशला चैव यथावत्कीर्तितं मया ॥ १.१३१.१९ ॥
このように、王よ、百人の息子、百人を超えるユユツ、そして娘ドゥッシャラー——これらすべてを私は正しく語りました。