Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.231

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.231.1

ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः ।
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत् ॥ १.२३१.१ ॥

于是所有天仙、成就者和大仙见到那场大毁灭,怀着极大的悲痛前往那里。

1.231.2

तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भनं जगतः कृपया तदा ॥ १.२३१.२ ॥

他们战胜了愤怒,自制而克服了诸根,于是出于对世界的怜悯,前往祖父的居所。

1.231.3

ततो ददृशुरासीनं सह देवैः पितामहम् ।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥ १.२३१.३ ॥

随后他们看见祖父与诸神一同坐着,四周被成就者和梵仙环绕。

1.231.4

तत्र देवो महादेवस्तत्राग्निर्वायुना सह ।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः ॥ १.२३१.४ ॥

那里有天神大自在天,有火神与风神同在,有月亮与太阳,有因陀罗,还有至上者(梵)的诸仙。

1.231.5

वैखानसा वालखिल्या वानप्रस्था मरीचिपाः ।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥ १.२३१.५ ॥

还有维坎那萨、婆罗基利耶、林居者、饮光者、不生者、不迷者,以及内蕴光明的苦行者。

1.231.6

ऋषयः सर्व एवैते पितामहमुपागमन् ।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः ॥ १.२३१.६ ॥

这些仙人都来到祖父面前;随后,那些悲伤的大仙都走近他,[在他面前站立]。

1.231.7

सुन्दोपसुन्दयौः कर्म सर्वमेव शशंसिरे ।
यथा हृतं यथा चैव कृतं येन क्रमेण च ॥ १.२३१.७ ॥

他们讲述了宋达与乌波宋达的一切行为:如何掠夺,如何行事,以及按何种次序。

1.231.8

न्यवेदयंस्ततः सर्वमखिलेन पितामहे ।
ततो देवगणाः सर्वे ते चैव परमर्षयः ॥ १.२३१.८ ॥

随后他们将一切完整地禀告祖父。接着,诸神众以及那些至高的仙人也都如此。

1.231.9

तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ।
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा ॥ १.२३१.९ ॥

他们将此事呈于其前,敦促祖父。于是祖父听了众人的那番话之后……

1.231.10

मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम् ।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ॥ १.२३१.१० ॥

他稍作思量,定下所当行之事,以那两人之毁灭为目标,召唤了毗首羯磨。

1.231.11

दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।
सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः ॥ १.२३१.११ ॥

祖父以大苦行者之德见到毗首羯磨,下令道:"当创造一位可爱的女子。"

1.231.12

पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च ।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः ॥ १.२३१.१२ ॥

他向祖父行礼,欣然接受那命令,反复思量之后,创造了一位天上的女子。

1.231.13

त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् ।
समानयद्दर्शनीयं तत्तदत्र स विश्ववित् ॥ १.२३१.१३ ॥

三界之中凡有的不动与动物,他这位通晓一切者便将其中值得一观的都聚集于此。

1.231.14

कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशत् ।
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥ १.२३१.१४ ॥

他将千千万万的宝石安置在她的身上,并造出了这由众宝聚成、具神之形的女子。

1.231.15

सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥ १.२३१.१५ ॥

她由毗首羯磨以极大的努力塑造而成,在三界女子之中,容貌无与伦比。

1.231.16

न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा ।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥ १.२३१.१६ ॥

她的身体上,凭借丰盈的美貌,竟没有一处细微之处不会让观看者的目光停留。

1.231.17

सा विग्रहवतीव श्रीः कामरूपा वपुष्मती ।
पितामहमुपातिष्ठत्किं करोमीति चाब्रवीत् ॥ १.२३१.१७ ॥

她宛如化身的吉祥天女,能随意变换形貌,身躯美丽。她走近祖父,说道:“我该做什么?”

1.231.18

प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै वरं ददौ ।
कान्तत्वं सर्वभूतानां साश्रियानुत्तमं वपुः ॥ १.२३१.१८ ॥

他一见到她便心生欢喜,满怀爱意地赐予她一项恩惠:为一切众生所爱的品质,以及无上光彩的身躯。

1.231.19

सा तेन वरदानेन कर्तुश्च क्रियया तदा ।
जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥ १.२३१.१९ ॥

她因那份恩赐和造物主的作为,当时便夺去了一切众生的眼睛与心神。

1.231.20

तिलंतिलं समानीय रत्नानां यद्विनिर्मिता ।
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः ॥ १.२३१.२० ॥

她是由一粒粒宝石的微尘聚合而成,祖父为她取名为「提洛达摩」。

1.231.21

ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् ।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता ॥ १.२३१.२१ ॥

她向梵天行礼,合掌说道:「众生之主啊,我有何职责?我今日被创造于此,究竟是为了什么?」

1.231.22

गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥ १.२३१.२२ ॥

提洛达摩啊,去找阿修罗僧陀与优婆僧陀吧。善良的人啊,用可令人爱慕的容貌去诱惑他们。

1.231.23

त्वत्कृते दर्शादेव रूपसंपत्कृतेन वै ।
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥ १.२३१.२३ ॥

因你的缘故,凭借你容貌的丰盛,只要一见到你,他们二人之间便生出敌意——你就这样去做吧。

1.231.24

सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥ १.२३१.२४ ॥

她应允说:「就照您所说的去做。」向祖父行礼后,便在那里绕着诸天神行走,画出一个环绕的圆圈。

1.231.25

प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥ १.२३१.२५ ॥

世尊面向东方而坐;南边是大自在天,北边是诸天,四面则是诸仙人。

1.231.26

कुर्वन्त्यां तु तदा तत्र मण्डलं तत्प्रदक्षिणम् ।
इन्द्रः स्थाणुश्च भगवान्धैर्येण तु परिच्युतौ ॥ १.२३१.२६ ॥

当他们在那里绕圈行礼时,因陀罗与世尊斯塔奴失去了定力。

1.231.27

द्रष्टुकामस्य चात्यर्थं गतायां पार्श्वतस्तथा ।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम् ॥ १.२३१.२७ ॥

因为极其想要看见,他转向一侧时,南方又现出另一张脸,莲花般的眼睛拉长着。

1.231.28

पृष्ठतः परिवर्तन्त्यां पश्चिमं निःसृतं मुखम् ।
गतायां चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥ १.२३१.२८ ॥

他向后转时,西方现出一张脸;他转到北侧时,北方又现出一张脸。

1.231.29

महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः ।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥ १.२३१.२९ ॥

大因陀罗的眼睛,后方、两侧和前方,宽大而边缘泛红,四面合计成为一千只。

1.231.30

एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥ १.२३१.३० ॥

如此,往昔大神斯塔奴成为四面神,而杀伐波罗的因陀罗则成为千眼者。

1.231.31

तथा देवनिकायानां महर्षीणां च सर्वशः ।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा ॥ १.२३१.३१ ॥

同样,诸神之众与大仙的所有面孔都转向了提罗多们所去的方向。

1.231.32

तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम् ।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥ १.२३१.३२ ॥

那些大心者的目光,几乎全部都落在她的身体上,唯独祖父神除外。

1.231.33

गच्छन्त्यां तु तया सर्वे देवाश्च परमर्षयः ।
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा ॥ १.२३१.३३ ॥

她离去之时,诸神与至高仙人都以为她的美貌之丰盛已使此事告成。

1.231.34

तिलोत्तमायां तस्यां तु गतायां लोकभावनः ।
कृतं कार्यमिति श्रीमानब्रवीच्च पितामहः।
सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥ १.२३१.३४ ॥

提罗多玛离去之后,世界的护持者、光荣的祖父说:「事已成就。」遂遣散了诸神与仙人众。