摩诃婆罗多 · 章 1.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.35.1
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च ।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥ १.३५.१ ॥
苏多之子啊,你已说明蛇群受诅咒的缘由,即通过母与子而涉及毗那他之事。
1.35.2
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा ।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥ १.३५.२ ॥
你已说明夫君赐予迦陀卢与毗那他的恩惠,以及毗那他之子两只鸟的名字。
1.35.3
पन्नगानां तु नामानि न कीतर्यसि सूतज ।
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥ १.३५.३ ॥
苏多之子啊,你没有诵说蛇群的名字;我们想听其中主要的名字。
1.35.4
बहुत्वान्नामधेयानि पन्नगानां तपोधन ।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥ १.३५.४ ॥
苦行的宝藏啊,蛇群的名字众多,我不会全部诵说;请听我说其中的主要名字。
1.35.5
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् ।
ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥ १.३५.५ ॥
最先出生的是舍沙,其次是婆苏吉;随后是爱罗婆多、特叉迦、迦尔科吒迦与达南遮耶。
1.35.6
कालियो मणिनागश्च नागश्चापूरणस्तथा ।
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥ १.३५.६ ॥
迦梨耶、摩尼那伽、蛇阿普朗那、蛇宾遮罗迦,然后是伊拉帕特罗与婆摩那。
1.35.7
नीलानीलौ तथा नागौ कल्माषशबलौ तथा ।
आर्यकश्चोग्रकश्चैव नागः कलशपोतकः ॥ १.३५.७ ॥
蛇王尼罗与阿尼罗,还有羯罗沙与沙巴罗,雅利耶迦与乌格罗迦,以及蛇王迦罗舍波陀迦。
1.35.8
सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः ।
आप्तः कोटरकश्चैव शङ्खो वालिशिखस्तथा ॥ १.३५.८ ॥
名为苏摩那的蛇王,达提穆卡,以及毗摩罗频陀迦、阿波多、柯陀罗迦、商佉与跋利尸迦。
1.35.9
निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा ।
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥ १.३५.९ ॥
尼湿塔那迦、金窟、那呼沙、频伽罗,以及外耳、象足与铁杵团。
1.35.10
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा ।
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥ १.३५.१० ॥
坎跋罗与阿湿嚩多罗,蛇王迦利耶迦,两条蛇王伏多与僧伐多迦,以及二莲花,如此听闻。
1.35.11
नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः ।
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा ॥ १.३५.११ ॥
蛇王螺口,另一蛇王瓜形,蛇王安隐,以及蛇王团陀罗迦。
1.35.12
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः ।
मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः ॥ १.३५.१२ ॥
迦罗毗罗、华牙、毗卢迦、毗卢白,鼠食、螺头、满贤与黄色。
1.35.13
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा ।
कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान् ॥ १.३५.१३ ॥
无敌、光明、龙王,以及吉祥持者;俱卢后裔持国,还有勇猛的螺团。
1.35.14
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् ।
हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः ॥ १.३५.१४ ॥
维罗阇与苏跋忽,勇猛的稻团,象团,皮陀罗迦,善面,以及食尸者。
1.35.15
कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः ।
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥ १.३५.१५ ॥
库塔罗、象王,龙王光明;睡莲与睡莲目,鹧鸪与耕者。
1.35.16
कर्दमश्च महानागो नागश्च बहुमूलकः ।
कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ ॥ १.३५.१६ ॥
迦尔达摩、大龙、多根龙;两龙卡卡拉与阿卡卡拉;昆陀罗与摩诃陀罗。
1.35.17
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम ।
बहुत्वान्नामधेयानामितरे नानुकीर्तिताः ॥ १.३५.१७ ॥
婆罗门中的至尊啊,这些龙王是主要被列举的;因名字众多,其余的便不再一一列举。
1.35.18
एतेषां प्रसवो यश्च प्रसवस्य च संततिः ।
असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन ॥ १.३५.१८ ॥
他们的后代及其世系不可胜数;因此,苦行丰富的圣者啊,我不再一一叙述他们。
1.35.19
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन ॥ १.३५.१९ ॥
此处的蛇有数千、数万、数亿之多;哦,苦修者,实在无法计数。