摩诃婆罗多 · 章 11.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.21.1
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् ।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत् ॥ ११.२१.१ ॥
甘陀利:被毗摩刀然所杀的阿槃提,正被秃鹫与豺狼啃食。他的亲族虽远在别处,这位英雄却如同无亲无故一般躺卧。
11.21.2
तं पश्य कदनं कृत्वा शूरणां मधुसूदन ।
शयानं वीरशयने रुधिरेण समुक्षितम् ॥ ११.२१.२ ॥
摩杜苏陀那啊,请看他在英雄之中造成杀戮,躺在英雄的床榻上,浑身沾满鲜血。
11.21.3
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः ।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम् ॥ ११.२१.३ ॥
豺狼、乌鸦及各种食肉之兽,一个接一个地拖扯着他。请看时间的轮转。
11.21.4
शयानं वीरशयने शूरमाक्रन्दकारिणम् ।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ॥ ११.२१.४ ॥
在英雄床榻上躺着、哀号不已的那位英雄阿槃提身旁,众女子坐着哭泣。
11.21.5
प्रातिपेयं महेष्वासं हत भीमेन बाह्लिकम् ।
प्रसुप्तमिव शार्दूलं पश्य कृष्णमनस्विनम् ॥ ११.२१.५ ॥
请看被毗摩刀然所杀的大弓手、般提帕之子巴赫利迦,他如同酣睡的老虎躺卧着,那黑心之人啊。
11.21.6
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते ।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥ ११.२१.६ ॥
即使已被杀死,他的面色依然光彩夺目,如同在满月之日升起的圆月。
11.21.7
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता ।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः ॥ ११.२१.७ ॥
因失子之痛而煎熬、坚守誓言的帕卡之征服者(阿周那)在战场上击倒了虚陀刹陀罗之子。
11.21.8
एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः ।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् ॥ ११.२१.८ ॥
你看,这位被大德们守护的胜车(Jayadratha),已被那位穿透十一支军队、欲践行誓言者杀死。
11.21.9
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् ।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् ॥ ११.२१.९ ॥
哦,阇那陀那!信度与苏维罗之主、充满傲慢的心胸宽广者胜车,正被豺狼与秃鹫啃食。
11.21.10
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत ।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात् ॥ ११.२१.१० ॥
哦,阿约陀!虽有眷恋他的妻子们守护,她们却惊吓着他,将他从近处拖向那幽深低洼的密林。
11.21.11
तमेताः पर्युपासन्ते वीक्षमाणा महाभुजम् ।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः ॥ ११.२१.११ ॥
凝望着这位大臂者,信度、苏维罗、迦槃闍、犍陀罗与耶婆那的女子们围坐在他身旁。
11.21.12
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह ।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ॥ ११.२१.१२ ॥
哦,阇那陀那!当他抓住克利希那(德罗波蒂)并与盖伽耶人一同逃走的那一刻,胜车便注定要被般度之子杀死。
11.21.13
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः ।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ॥ ११.२१.१३ ॥
克里希那啊,当胜车被释放时,他们曾尊敬杜莎拉。今天他们为何不再尊敬她?
11.21.14
सैन्धवं मे सुता बाला प्रस्खलन्तीव दुःखिता ।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान् ॥ ११.२१.१४ ॥
为了信度王,我年幼的女儿悲痛得踉跄欲倒,仿佛在毁灭自己,又仿佛在咒骂般度之子。
11.21.15
किन्नु दुःखतरं कृष्ण परं मम भविष्यति ।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ॥ ११.२१.१५ ॥
克里希那啊,对我而言还有什么比这更痛苦的呢?我的女儿们和年幼的儿媳,丈夫都已被杀,成了寡妇。
11.21.16
हाहा धिग्धुःशलां पश्य वीतशोकभयामिव ।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः ॥ ११.२१.१६ ॥
唉,可耻!看杜莎拉,仿佛无忧无惧,四处奔跑,寻不见丈夫的头颅。
11.21.17
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः ।
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः ॥ ११.२१.१७ ॥
他曾阻止所有贪恋其子的般度之子,却在杀死大批军队之后,自己也落入了死神之手。
11.21.18
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् ।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ॥ ११.२१.१८ ॥
这些面如明月的女子围绕着那位如发狂大象般、极其难以战胜的英雄,痛哭不已。