摩诃婆罗多 · 章 12.105
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.105.1
अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि ।
ब्रवीम्यहं तु ते नीतिं राज्यस्य प्रतिपत्तये ॥ १२.१०५.१ ॥
若你在刹帝利的本性中看到一些男子气概,我便告诉你收复王国的策略。
12.105.2
तां चच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि ।
शृणु सर्वमशेषेण यत्ते वक्ष्यामि तत्त्वतः ॥ १२.१०५.२ ॥
若你能遵行那策略并去做那事,就完整地听我所说的一切;我将如实告诉你其中的要义。
12.105.3
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि ।
राज्यं वा राज्यमन्त्रं वा महतीं वा पुनः श्रियम्।
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ॥ १२.१०५.३ ॥
若你践行此事,便能获得大利:王国、治国之谋,或再得大富贵。国王啊,若此事合你心意,请再说一遍;我便告诉你。
12.105.4
ब्रवीतु भगवान्नीतिमभिपन्नोऽस्म्यधीहि भो ।
अमोघ एव मेऽद्यास्तु त्वया सह समागमः ॥ १२.१०५.४ ॥
愿世尊讲说此策;我已归依而来,请您教导我。愿今日与您的相遇不会徒然。
12.105.5
हित्वा मानं च दम्भं च क्रोधं हर्ष भयं तथा ।
प्रत्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः।
तमुत्तमेन शौचेन कर्मणा चावधारय ॥ १२.१०५.५ ॥
舍弃傲慢、虚伪、愤怒、喜乐与恐惧,合掌下拜,侍奉你的敌人;并以至上的清净与行为来确立自己。
12.105.6
दातुमर्हति ते वित्तं वैदेहः सत्यविक्रमः ।
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि ॥ १२.१०५.६ ॥
具真实勇力的毗提诃王(遮那迦)值得赠你财富;你将成为众生之中的准则,并得到他们的眷顾。
12.105.7
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् ।
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः।
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ॥ १२.१०५.७ ॥
那时你将得到热心、无恶习、清净的助手。依照自己的教典行事、克制自我、降伏诸根的人,既能提升自己,也能使臣民欢喜。
12.105.8
तेनैव त्वं धृतिमता श्रीमता चापि सत्कृतः ।
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत् ॥ १२.१०५.८ ॥
你也将受到那位坚定而光荣的人的尊敬。在一切众生之中你将成为准则,前往之后将获得极大的认可。
12.105.9
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् ।
सान्त्वेन भेदयित्वाऽरीन्बिल्वं बिल्वेन शातय।
परैर्वा संविदं कृत्वा बलमप्यस्य घातय ॥ १२.१०५.९ ॥
随后,获得盟友的力量,充分商议,以安抚之策离间敌人;以毕尔瓦砍毕尔瓦。或者与他人结盟,也可以摧毁其军力。
12.105.10
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च ।
शय्यासनानि यानानि महार्हाणि गृहाणि च ॥ १२.१०५.१० ॥
那些难以得到的美好之物:妇女与衣物,卧榻与座席,车乘与极为贵重的房屋。
12.105.11
पक्षिणो मृगजातानि रसगन्धाः फलानि च ।
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ॥ १२.१०५.११ ॥
飞禽、各类野兽、美味与香气,以及果实。正应使他沉迷于这些,使敌人自行灭亡。
12.105.12
यद्येवं प्रतिषेद्धव्यो यद्युपेक्षणमर्हति ।
सदैव राजशार्दूल विदुषा हितमिच्छता।
न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता ॥ १२.१०५.१२ ॥
若是如此,就应当抵制他;即便他值得忽视,王中之虎啊,希望利益与善策的智者,绝不可让敌人暴露。
12.105.13
वसस्व पुरमामित्रं विषये मित्रसंमतः ।
भजस्व श्वेतकाकीयैर्मित्रधर्ममनथैकैः ॥ १२.१०५.१३ ॥
住在敌人的城中,被视为朋友而受尊敬;以白乌鸦之计,依友谊之道行事,不生祸患。
12.105.14
आरम्भांश्चास्य महतो दुष्करान्संप्रयोजय ।
नदीबन्धविभेदांश्च बलवद्भिर्विरुध्यताम् ॥ १२.१०५.१४ ॥
促使他展开那些宏大而艰难的事业;让河坝及其决口受到强者的反对。
12.105.15
उद्यानानि महार्हाणि शयनान्यासनानि च ।
प्रीतिभोगमुखेनैव कोशमस्य विरोचय ॥ १२.१०५.१५ ॥
珍贵的园林、卧榻与座席;只以享乐之道,使他的府库光彩显耀。
12.105.16
यज्ञदाने प्रशंसास्मै ब्राह्मणाननुवर्तय ।
ते त्वा प्रियं करिष्यन्ति तच्छेत्स्यन्ति वृका इव ॥ १२.१०५.१६ ॥
在祭祀与布施中赞美他,使婆罗门追随他;他们会为你做你喜欢的事,像群狼一样把他撕碎。
12.105.17
असंशयं पुण्यशीलाः प्राप्नोति परमां गतिम् ।
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति शाश्वतम् ॥ १२.१०५.१७ ॥
毫无疑问,品行善良之人能达到至高之境;在三界天上,他获得最具功德的永恒之所。
12.105.18
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति ।
उभयत्र प्रयुक्तस्य धर्मे चाधर्म एव च ॥ १२.१०५.१८ ॥
哦,憍尸罗,国库空虚时,国王便落入敌人的控制之中。无论行法或行非法,在两种情况下都是如此。
12.105.19
फलार्थमूलमुच्छिद्यात्तेन नन्दन्ति शत्रवः ।
न चास्मै मानुषं कर्म दैवप्रस्योपवर्णय ॥ १२.१०५.१९ ॥
不should为了果实而拔除根本;如此行事,敌人便会欢喜。请向这个依赖命运的人讲述人力所应做的事。
12.105.20
असंशयं दैवपरः क्षिप्रमेव विनश्यति ।
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् ॥ १२.१०५.२० ॥
依赖命运的人无疑会很快毁灭。让他举行毗首婆吉特祭,并舍弃他的全部财产。
12.105.21
ततो गच्छत्यसिद्धार्थः पीडयानो महाजनम् ।
त्यागधर्मविदं पुण्यं कंचिदस्योपवर्णय ॥ १२.१०५.२१ ॥
于是那目标未成的人,继续折磨大众而去。请向他讲述一位通晓舍弃之法的有德之人。
12.105.22
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् ।
सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना।
गजानश्वान्मनुष्यांश्च कृतकैरुपघातय ॥ १२.१०५.२२ ॥
或许他会想要舍弃,或许他会安然离去。借助能灭尽一切敌人的成就药方,以人工手段令象、马与人遭到毁灭。
12.105.23
एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः ।
शक्या विपहता कर्तुं न क्लीबेन नृपात्मज ॥ १२.१०५.२३ ॥
这些以及许多其他欺诈之策都已经仔细考虑过了;王子啊,这些是可以施行的,但胆怯之人做不到。