Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.125

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.125.1

क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः ।
कपिलामुपजीवन्ति कथमेतत्पितर्भवेत् ॥ १३.१२५.१ ॥

刹帝利、首陀罗以及没有咒语的再生族,依靠黄褐色的母牛生活。这怎能用于祖先?

13.125.2

क्षत्रियाश्चैव शूद्राश्च मन्त्रहीनाश्च ये द्विजाः ।
कपिलामुपजीवन्ति तेषां वक्ष्यामि निर्णयम् ॥ १३.१२५.२ ॥

关于依靠黄褐色母牛生活的刹帝利、首陀罗以及没有咒语的再生族,我将宣说定论。

13.125.3

कपिलास्तूत्तमा लोके गोषु चैवोत्तमा मताः ।
तासां दाता लभेत्स्वर्गं विधिना यश्च सेवते ॥ १३.१२५.३ ॥

黄褐色母牛在世间被视为一切牛中最殊胜者。依法布施她们或侍奉她们的人,将获得天界。

13.125.4

स्पृशेत कपिलां यस्तु दण्डेन चरणेन वा ।
स तेन स्पर्शमात्रेण नरकायोपपद्यते ॥ १३.१२५.४ ॥

若有人用棍棒或脚触碰黄褐色母牛,仅凭这一触碰,他便堕入地狱。

13.125.5

मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेणैव प्रमुञ्चते ।
मन्त्रिहीनं तु यो युञ्जात्कृमियोनौ प्रसूयते ॥ १३.१२५.५ ॥

应当以咒语套上黄褐色母牛,也应以咒语解开她。无咒语而套上她的人,将生于蛆虫之胎。

13.125.6

प्रहाराहतमर्माङ्गा दुःखेन च जडीकृता ।
पदानि यावद्गच्छेत तावल्लोकान्कृमिर्भवेत् ॥ १३.१२५.६ ॥

母牛的要害与肢体被打伤,因痛苦而麻木。她走了多少步,打她的人便要在多少个世界中作蛆虫。

13.125.7

यावन्तो बिन्दवस्तस्याः शोणितस्य क्षितिं गताः ।
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते ॥ १३.१२५.७ ॥

她的血滴落到地上有多少滴,他便在地狱(那洛迦)中度过多少千年。

13.125.8

मन्त्रेण युञ्ज्यात्कपिलां मन्त्रेण विनियोजयेत् ।
मन्त्रहीनैरनुयुतो मञ्जयेत्तमसि प्रभो ॥ १३.१२५.८ ॥

应以咒语驾驭迦毗罗牛,以咒语使用之。主啊,与无咒者相连的人将沉入黑暗。

13.125.9

कपिलां येऽपि जीवन्ति बुद्धिमोहान्विता नराः ।
तेऽपि वर्षसहस्राणि पतन्ति नरके नृप ॥ १३.१२५.९ ॥

那些迷惑于智慧、依靠迦毗罗牛而生活的人,哦国王,也会堕入地狱数千年。

13.125.10

अथ न्यायेन ये विप्राः कपिलामुपयुञ्जते ।
तस्मिंल्लोके प्रमोदन्ते लोकाश्चैषामनामयाः ॥ १३.१२५.१० ॥

然而,依正道使用迦毗罗牛的婆罗门,在那个世界中欢喜,他们的世界也无病无恼。

13.125.11

विधिना ये न कुर्वन्ति शूद्रास्तानुपधारय ॥ १३.१२५.११ ॥

应当知道,不依规定行事的首陀罗也是如此。