Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.191

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.191.1

किञ्चिद्धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम् ।
सरहस्याश्च ये दोषास्ताञ्शृणुध्वं समाहिताः ॥ १३.१९१.१ ॥

我将讲说一种能给人带来安乐的法;请专心听取那些连同秘密的过失。

13.191.2

अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम् ।
दीपकश्चापि कर्तव्यः पितॄणां सतिलोदकः ॥ १३.१९१.२ ॥

应当行火祭,以上等食物供养;也应为祖先设置燃灯,并以芝麻与水供奉。

13.191.3

एतेन विधिना मर्त्यः श्रद्दधानः समाहितः ।
चतुरो वार्षिकान्मासान्यो ददाति तिलोदकाम् ॥ १३.१९१.३ ॥

以此方法,有信心而专注的人在一年中的四个月里奉献芝麻与水——

13.191.4

भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे ।
पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम् ॥ १३.१९१.४ ॥

依自己的能力供养精通吠陀的婆罗门,便在此世获得百次动物祭祀的丰厚果报。

13.191.5

इदं चैवापरं गुह्यमप्रशस्तं निबोधत ।
अग्नेस्तु वृषलो नेता हविर्मूढाश्च योषितः ॥ १३.१९१.५ ॥

再听这另一件秘密而不当的事:火的引导者是贱民,而迷惑的妇人奉献供物。

13.191.6

मन्यते धर्म एवेति च चाधर्मेणि लिप्यते ।
अग्नयस्तस्य कुप्यन्ति शूद्रयोनिं स गच्छति ॥ १३.१९१.६ ॥

他认为这就是法,却被非法所染;他的火对他发怒,他便投生于首陀罗之胎。

13.191.7

पितरश्च न तुष्यन्ति सहदेवैर्विशेषतः ।
प्रायश्चित्तं तु यत्तत्र ब्रुवतस्तन्निबोध मे।
यत्कृत्वा तु नरः सम्यक्सुखी भवति विज्वरः ॥ १३.१९१.७ ॥

祖先尤其与诸神一同也不感到满足。请听我所说的赎罪之法;行之者便会完全快乐,无忧无虑。

13.191.8

गवां मूत्रपुरीषेणि पयसा च घृतेन च ।
अग्निकार्यं त्र्यहं कुर्यान्निराहारः समाहितः ॥ १३.१९१.८ ॥

三日之内,应以牛尿、牛粪、牛奶和酥油行火祭,禁食并使心念专一。

13.191.9

ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः ।
हृष्यन्ति पितरश्चास्य श्राद्धकाल उपस्थिते ॥ १३.१९१.९ ॥

于是年满之时,诸神接受之;当施主祭祀之时,他的祖先也欢喜。

13.191.10

एष ह्यधर्मो धर्मश्च सरहस्यः प्रकीर्तितः ।
मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावह ॥ १३.१९१.१० ॥

此即非法与法,连同其秘义已被宣示;对于渴望天界的凡人,它在死后带来天界之乐。