Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.194

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.194.1

ततः सर्वे महाभागा देवाश्च पितरश्च ह ।
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन् ॥ १३.१९४.१ ॥

于是诸位大福德的天神、祖先与大福德的仙人对鬼众说了这些话。

13.194.2

भवन्तो वै महाभागा अपरोक्षनिशाचराः ।
उच्छिष्टानशुचीन्क्षुद्रान्कथं हिसथ मानवान् ॥ १३.१९४.२ ॥

诸位大福德者,你们在夜间隐形游走,为何要伤害那些被污染、不净、卑贱的人类?

13.194.3

के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ ।
रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ।
श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः ॥ १३.१९४.३ ॥

有哪些被记住的对治之法,使你们不伤害凡人?又有哪些能毁灭罗刹的物品,使你们在家中灭亡?夜行者们,我们愿从你们那里听闻这一切。

13.194.4

मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे ।
मोहान्मांसानि खादेत वृक्षमूले च यः स्वपेत् ॥ १३.१९४.४ ॥

常因交合而被污染者、行事颠倒者、因迷惑而食肉者,以及在树根下睡眠者。

13.194.5

आमिषं शीर्षतो यस्य पादतो यश्च संविशेत् ।
तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः ॥ १३.१९४.५ ॥

凡肉(不净)从其头或脚而入者,这些人都被污染,且多孔隙。

13.194.6

उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति ।
एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः ॥ १३.१९४.६ ॥

于水中排放不净之物与痰涎者,这些人可被吞食,亦可被杀,此事无疑。

13.194.7

एवं शीलसमाचारान्धर्षयामो हि मानवान् ।
श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम्। ॥ १३.१९४.७ ॥

因此我们攻击行为如此的人类。请听那些使我们无法伤害他们的抵御之法。

13.194.8

गोरोचनासमालम्भो वचाहस्तश्च यो भवेत् ।
घृताक्षतं च यो दद्यान्मस्तके तत्परायणः ॥ १३.१९४.८ ॥

以牛黄触碰者,手持瓦恰者,以酥油和完整谷粒献于头顶并专心于此者。

13.194.9

ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम् ।
यस्य चाग्निर्गृहे नित्यं दिवारात्रौ च दीप्यते ॥ १३.१९४.९ ॥

不食肉之人我们无法伤害,家中昼夜常燃火焰之人也一样。

13.194.10

तरक्षोश्चर्मदंष्ट्राश्च तथैव गिरिकच्छपः ।
आज्यधूमो बिडालश्च च्छागः कृष्णोऽत पिङ्गलः ॥ १३.१९४.१० ॥

塔拉克舒的皮与牙,同样的山龟,酥油之烟,猫,山羊,黑色与黄褐色者。

13.194.11

येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम् ।
तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः ॥ १३.१९४.११ ॥

凡家主之家中有这些物件者,那些住所便无法被最凶恶的肉食者侵扰。

13.194.12

लोकानस्मद्विधा ये च विचरन्ति यथासुखम् ।
तस्मादेतानि गेहेषु रक्षोघ्नानि विशाम्पते।
एतद्वः कथितं सर्वं यत्र वः संशयो महान् ॥ १३.१९४.१२ ॥

像我们这样随意游走于诸界的,因此家中这些物件能摧毁罗刹。人主啊,凡是你有大疑惑之处,这一切都已经告诉你了。