摩诃婆罗多 · 章 13.196
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.196.1
सारमुद्धृत्य युष्माभिः साधुधर्म उदाहृतः ।
धर्मगुह्यमिदं मत्तः शृणुध्वं सर्व एव ह ॥ १३.१९६.१ ॥
你们已提取精华,阐明了善法。现在你们都听我说这法的秘密吧。
13.196.2
येषां धर्माश्रिता बुद्धिःक श्रद्दधानाश्च ये नराः ।
तेषां स्यादुपदेष्टव्यः सरहस्यो महाफलः ॥ १३.१९६.२ ॥
对于心智依托于法且有信心的人,应当连同其秘密一并传授;其果报极大。
13.196.3
निरुद्विग्नस्तु यो दद्यान्मासमेकं गवाह्निकम् ।
एकभक्तं तथाऽश्नीयाच्छ्रूयतां तस्य यत्फलम् ॥ १३.१९६.३ ॥
请听那人的果报:他无忧无虑地连续一个月每天布施一头牛,并每天只吃一顿饭。
13.196.4
इमा गावो महाभागाः पवित्रं परमं स्मृताः ।
त्रीन्लोकान्धानयन्ति स्म सदेवासुरमानुपान् ॥ १३.१९६.४ ॥
这些牛福德广大,被认为是至上的清净之物;它们承载着三界,包括天神、阿修罗和人类。
13.196.5
तासु चैव महापुण्यं शुश्रूषा च महाफलम् ।
अहन्यहनि धर्मेण युज्यते वै गवाह्निकः ॥ १३.१९६.५ ॥
其中有大功德,侍奉它们也有大果报;每日布施牛者便与法相应。
13.196.6
मया ह्येता ह्यनुज्ञाताः पूर्वमासन्कृते युगे ।
ततोऽहमनुनीतो वै ब्रह्मणा पद्मयोनिना ॥ १३.१९६.६ ॥
我自己在往昔的圆满时代允许了它们;此后,从莲花而生的梵天恳求于我。
13.196.7
तस्माद्व्रजस्थानगतस्तिष्ठत्युपरि मे वृषः ।
रमेऽहं सह गोभिश्च तस्मात्पूज्याः सदैव ताः ॥ १३.१९६.७ ॥
因此,停在牛栏中的公牛立于我的身上。我与牛群同乐,因此它们永远应当受到敬奉。
13.196.8
महाप्रभावा वरदा वरं दद्युरुपासिताः ।
ता गावोऽस्यानुमन्यन्ते सर्वकर्मसु युत्फलम् ॥ १३.१९६.८ ॥
具有大威力、能赐予恩惠的牛群,若受到供奉,便能赐予恩典。在一切行为中,它们都认可他那轭的果实。
13.196.9
तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम् ॥ १३.१९६.९ ॥
每日施舍牛者,在那里,他享有四分之一。