Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 16.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

16.5.1

ततो ययुर्दारुकः केशवश्च ।
बभ्रुश्च रामस्य पदं पतन्तः।
अथापश्यन्राममनन्तवीर्यं ।
वृक्षाश्रितं चिन्तयानं विविक्ते। ॥ १६.५.१ ॥

于是达鲁迦、克舍婆与跋不如急忙前往罗摩之处。他们看见无限威力的罗摩靠着一棵树,独自在僻静处沉思。

16.5.2

ततः समासाद्य महानुभावः ।
कृष्णस्तदा दारुकमन्वशासत्।
गत्वा कुरून्सर्वमिमं महान्तं ।
पार्थाय शंसस्व वधं यदूनाम् ॥ १६.५.२ ॥

于是大威力的克里希纳走近,嘱咐达鲁迦:“你去见俱卢族,把耶度族这场大灾难的全部情形告诉贝塔(阿周那)。”

16.5.3

ततोऽर्जुनः क्षिप्रमिहोपयातु ।
श्रुत्वा मृतान्यादवान्ब्रह्मशापात्।
इत्येवमुक्तः स ययौ रथेन ।
कुरूंस्तदा दारुको नष्टचेताः ॥ १६.५.३ ॥

“那么阿周那应速速来此,闻知耶度族因婆罗门的诅咒而死去。”如此吩咐后,心神迷乱的达鲁迦乘车前往俱卢族。

16.5.4

ततो गते दारुके केशवोथ ।
दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम्।
स्त्रियो भवान्रक्षितुं यातु शीघ्रं ।
नैता हिंस्युर्दस्यवो वित्तलोभात् ॥ १६.५.४ ॥

达鲁迦离去后,克舍婆见跋不如在近旁,便说:“你快去保护妇女们,免得盗贼因贪图财物而伤害她们。”

16.5.5

कूटे युक्तं मुसलं लुब्धकस्य ॥ १६.५.५ ॥

猎人的铁杵,安装在铁尖上。

16.5.6

ततो दृष्ट्वा निहतं बभ्रुमाह ।
कृष्णेऽग्रजं भ्रातरमुग्रतेजाः।
हहैव त्वं मां प्रतीक्षस्व राम ।
यावत्स्त्रियो ज्ञातिवशाः करोमि ॥ १६.५.६ ॥

克里希那见巴布茹被杀,光芒猛烈,对他的兄长说:唉!罗摩,请等我,直到我保护好那些受制于亲族的妇女。

16.5.7

ततः पुरीं द्वारवतीं पविश्य ।
जनार्दनः पितरं प्राह वाक्यम्।
सर्वं भवान्रक्षतु नः समग्रं ।
धनंजयस्यागमनं प्रतीक्षन् ॥ १६.५.७ ॥

随后,进入德瓦拉瓦蒂城后,遮那陀那对父亲说:愿您完全保护我们所有人,同时等待达难闍耶的到来。

16.5.8

रामो वनान्ते प्रतिपालयन्मा-
मास्तेऽद्याहं तेन समानमिष्ये।
दृष्टं मयेदं निधनं यदूनां ।
राज्ञां च पूर्वं कुरुपुङ्गवानाम् ॥ १६.५.८ ॥

罗摩在林边等候我;今天我将与他同去。我已见到这场雅达瓦人的毁灭,以前也见过库鲁族中那些雄牛般的君王的毁灭。

16.5.9

नाहं विना यदुभिर्यादवानां ।
पुरीमिमामशकं द्रष्टुमद्य।
तपश्चरिष्यामि निबोध तन्मे ।
रामेणि सार्धं वनमभ्युपेत्य ॥ १६.५.९ ॥

没有雅达瓦人,我已无力再看这座城市。我现在将修苦行;请知道我的这番话——与罗摩一同前往林中。

16.5.10

इतीदमुक्त्वा शिरसा च पादौ ।
संस्पृश्य कृष्णस्त्वरितो जगाम।
ततो महान्निनदः प्रादुरासी-
त्सस्त्रीकुमारस्य पुरस्य तस्य ॥ १६.५.१० ॥

说罢,以头触其双足,克里希那急忙离去。于是那座城中,连同妇孺,发出了巨大的哭喊声。

16.5.11

अथाब्रवीत्केशवः सन्निवर्त्य ।
शब्दं श्रुत्वा योषितां क्रोशतीनाम्।
पुरीमिमामेष्यति सव्यसाची ।
स वो दुःखान्मोचयिता नराग्र्यः ॥ १६.५.११ ॥

于是克舍婆转身说道,听见哭泣妇女的声音:“萨维耶萨钦将来到这座城市;那位人中之杰会使你们脱离苦难。”

16.5.12

ततो गत्वा केशवस्तं ददर्श ।
रामं वने स्थितमेकं विविक्ते ॥ १६.५.१२ ॥

于是克舍婆前往,看见了他——罗摩独自站在森林中一处僻静之地。

16.5.13

रक्ताननः स्वां तनुं तां विमुच्य ॥ १६.५.१३ ॥

那位面色赤红者舍弃了自己的那个身体。

16.5.14

संदृश्यन्तं सागरान्तं विशन्तं ।
सम्यक्तदा सागरः प्रत्यगृह्णात्।
नागा दिव्याः सरितश्चैव पुण्याः ।
कर्कोटको वासुकिस्तक्षकश्च ॥ १६.५.१४ ॥

他被人看见直至海边并步入其中时,大海完全接纳了他。神圣的龙和圣河也一同;迦尔科塔卡、婆苏吉与德叉迦亦然。

16.5.15

पृथुश्रवा अरुणः कुञ्जरश्च ।
मिश्री शङ्खः कुमुदः पुण्डरीकः।
तथा नागो धृतराष्ट्रो महात्मा ।
ह्रादः क्राथः शितिपृष्ठो निकेतुः ॥ १६.५.१५ ॥

普利图罗婆、阿鲁那与昆阇罗;米什利、商佉、俱牟陀与分陀利迦;同样还有大心之龙王持国;呼罗陀、克拉陀、白背与尼克图。

16.5.16

सङ्कर्षणं भूधरं शुद्धबुद्धिम् ॥ १६.५.१६ ॥

萨唐喀尔沙那,负山者,心地清净。

16.5.17

ततो गते भ्रातरि वासुदेवो ।
जानन्सर्वा गतयो दिव्यदृष्टिः।
वने शून्ये विचरंश्चिन्तयानो ।
भूमौ चाथ संविवेशाग्र्यतेजाः ॥ १६.५.१७ ॥

兄长离去之后,知晓一切归宿、具有天眼的婆修提婆(黑天)在空寂的林中徘徊沉思,便躺卧在地上;他有至上的光辉。

16.5.18

सर्वं तेन प्राक्तदा वित्तमासी-
द्गान्धार्या यद्वाक्यमुक्तं स्वधर्मात्।
दुर्वाससा पारसोच्छिष्टलिप्ते ।
यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥ १६.५.१८ ॥

往昔他便知晓甘陀利凭其法力所说的一切,以及杜尔瓦萨所说的,还有在沾染波罗斯残食之处(……)所说的;黑天也都记起了。

16.5.19

कुलस्त्रीणां संवृतानां गवां च ।
द्विजेन्द्राणां बलमादाय धर्मे।
योनिर्देवानां वरदो ब्रह्मदेवो ।
गोविन्दाख्यो वासुदेवोऽथ नित्यः ॥ १६.५.१९ ॥

承受着贵族妇女、受护佑的牛群与殊胜婆罗门的力量——在法中,他是诸神之源,赐予恩惠者,梵天自身,名为戈温达的婆修提婆,常住者。

16.5.20

संचिन्तयन्नन्धकवृष्णिनाशं ।
कुरुक्षयं चैव महानुभावः।
मेने ततः संक्रमणस्य कालं ।
ततश्चकारेन्द्रियसन्निरोधम् ॥ १६.५.२० ॥

他沉思安陀迦与毗湿尼族的毁灭以及俱卢族的覆灭,那位大威力者便认定离去之时已到,随即摄持诸根。

16.5.21

यथा च लोकत्रयपालनार्थं ।
दुर्वासवाक्यप्रतिपालनाय।
देवोपि सन्देहविमोक्षहेतो-
र्निमित्तमैच्छत्सकलार्थतत्त्ववित् ॥ १६.५.२१ ॥

为了护持三界,也为了成全杜尔瓦萨的话,这位通晓一切义理真谛的神,也希望有一个借口,以解脱疑惑。

16.5.22

स सन्निरुद्धेन्द्रियवाङ्मनास्तु ।
शिश्ये महायोगमुपेत्य कृष्णः।
जरोथ तं देशमुपाजगाम ॥ १६.५.२२ ॥

克里希那收束诸根、言语与意念,入于大瑜伽而卧下;于是贾罗来到那个地方。

16.5.23

लुब्धस्तदानीं मृगलिप्सुरुग्रः ।
स केशवं योगयुक्तं शयानं
मृगासक्तो लुब्धकः सायकेन ।
जरोऽविध्यत्पादतले त्वरावां-
स्तं चाभितस्तज्जिघृक्षुर्जगाम ॥ १६.५.२३ ॥

于是贪婪凶猛的猎人贾罗一心追逐鹿,以箭射中正入瑜伽而卧的刻沙婆脚掌,并急忙靠近要去抓他。

16.5.24

अथापश्यत्पुरुषं योगयुक्तं ।
पीतांबरं लुब्धकोऽनेकबाहुम्।
मत्वाऽऽत्मानं त्वपराद्धं स तस्य ।
पादौ जरो जगृहे शङ्कितात्मा ॥ १६.५.२४ ॥

猎人于是看见那位入于瑜伽、身着黄衣、多臂的人;他以为自己冒犯了对方,心怀恐惧的贾罗便抓住了他的双脚。

16.5.25

आश्वासितः पुण्यफलेन भक्तया ।
तथाऽनुतापात्कर्मणो जन्मनश्च।
दृष्ट्वा तथा देवमनन्तवीर्यं ।
देवैस्स्वर्गं प्रातितस्त्यक्तदेहः ॥ १६.५.२५ ॥

他因功德之果与虔诚而得安慰,又为自己的行为和出生而悔恨;见到无限威力的神后,舍弃身体,被诸神带往天界。

16.5.26

गणैर्मुनीनां पूजितस्यत्र कृष्णो ।
गच्छन्नूर्द्ध्वं व्याप्य लोकान्स लक्ष्म्या ॥ १६.५.२६ ॥

此处,克里希那受众多圣仙礼敬,向上而行,与吉祥天女一同遍满诸世界。

16.5.27

दिवं प्राप्तं वासवोऽथाश्विनौ च ।
रुद्रादित्या वसवश्चाथ विश्वे।
प्रत्युद्ययुर्मुनयश्चापि सिद्धा ।
गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ १६.५.२७ ॥

到达天界的他,因陀罗、双阿输瓦、楼陀罗、阿提耶、婆苏和诸大神前来迎接;仙人与成就者也来了,还有主要的乾闼婆与天女们。

16.5.28

ततो राजन्भगवानुग्रतेजा ।
नारायणः प्रभवश्चाव्ययश्च।
योगाचार्यो रोदसी व्याप्य लक्ष्म्या ।
स्थानं प्राप स्वं महात्माऽप्रमेयम् ॥ १६.५.२८ ॥

于是,大王,具有猛烈光辉的薄伽梵那罗延,万物之源、不灭者、瑜伽之师,以光辉遍满天地,回到了他那不可度量的自身之处,这位大我。

16.5.29

ततो देवैर्ऋषिभिश्चापि कृष्णः ।
समागतश्चारणैश्चैव राजन्।
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः ।
सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥ १६.५.२९ ॥

此时,克里希纳与诸神、仙人及遮罗那相会,大王,主要的乾闼婆、殊胜的天女、悉陀与娑提耶们俯身向他致敬礼拜。

16.5.30

तं वै देवाः प्रत्यनन्दन्त राज-
न्मुनिश्रेष्ठा ऋग्भिरानर्चुरीशम्।
तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः ।
प्रीत्य चैनं पुरुहूतोऽभ्यनन्दत् ॥ १६.५.३० ॥

诸神欢喜地迎接了他,大王;仙人中最殊胜者以《梨俱》诗句礼赞主宰;乾闼婆也站立赞颂着他;补卢呼多因陀罗则满怀爱意地向他致意。

16.5.31

नमोनमस्ते भगवञ्शार्ङ्गधन्व-
न्धर्मस्थित्या प्रादुरासीर्धरायाम्।
कंसाख्यादीन्देवशत्रूंश्च सर्वा-
न्हत्वा भूमिः स्थापिता भारतप्ता ॥ १६.५.३१ ॥

啊,世尊,持沙揭罗弓者,敬礼,敬礼于您!为了维持法,您降临于大地。杀死了名为建沙的以及其他一切天神的敌人,您安定了被婆罗多族折磨的大地。

16.5.32

दिव्यं स्थानमजरं चाप्रमेयं ।
दुर्विज्ञेयं चागमैर्गम्यमग्र्यम्।
गच्छ प्रभो रक्ष चार्तिं प्रपन्ना-
न्कल्पेकल्पे जायमानांश्च मर्त्यान् ॥ १६.५.३२ ॥

请前往您神圣、不老、不可测度、难以知晓而可由经典抵达的至上之处。啊,主,请庇护已皈依的困苦者,以及每一劫中降生的凡人。

16.5.33

इत्येवमुक्त्वा देवसंघोऽनुगम्य ।
श्रिया युक्तं पुष्पवृष्ट्या ववर्ष।
वाणी चासीत्संश्रिता रूपिणी सा ।
भानोर्मध्ये प्रविश त्वं तु राजन् ॥ १६.५.३३ ॥

如此说完,天神众随后跟去,向具足吉祥者降下花雨。随即有一具形之声响起:啊,国王,请进入太阳的中央。

16.5.34

भुजैश्चतुर्भिः समुपेतं ममेदं ।
रूपं विशिष्टं जीवितं संस्थितं च।
भूमौ गतं पूजयताप्रमेयं ।
सदा हि तस्मिन्निवसामीति देवाः ॥ १६.५.३४ ॥

我这具带有四臂的殊胜之形,以及停留并降于大地的生命——你们应当礼敬那不可测度者。因为我常住于他之中,诸天神如是说。

16.5.35

देवा निवृत्तास्तत्पदं नाप्नुवन्तो ।
बुद्ध्या देवं संस्मरन्तः प्रतीताः।
ब्रह्माद्यास्ते तद्गुणान्कीर्तयन्तः ।
शुभाँल्लोकान्स्वान्प्रपेदुः सुरेन्द्राः ॥ १६.५.३५ ॥

诸神未能获得那境界而返回,以智慧忆念那神。梵天等诸天之主颂扬他的功德,前往各自吉祥的世界。