Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.9.1

युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा ।
प्रमाणेन यथा याम्या शुभप्राकारतोरणा ॥ २.९.१ ॥

啊,坚战!伐楼那的神圣议事厅光辉无限,其规模与阎摩的相同,拥有美丽的围墙与门楼。

2.9.2

अन्तः सलिलमास्थाय विहिता विश्वकर्मणा ।
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ॥ २.९.२ ॥

此殿立于水中,由毗首羯摩建造,饰有神圣的宝石之树,能结果开花。

2.9.3

नीलपीतैः सिताः श्यामैः सितैर्लोहितकैरपि ।
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः ॥ २.९.३ ॥

殿中之树有青、黄、白、黑、红诸色;如华盖、如灌木,挂着成串的花穗。

2.9.4

तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः ।
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ॥ २.९.४ ॥

殿中亦有种种彩羽、声音甜美的飞禽,形貌美妙难以描述,数以百计、千计。

2.9.5

सा सभा सुखसंस्पर्शा न शीता न च धर्मदा ।
वेश्मासनवती रम्या सिता वरुणपालिता ॥ २.९.५ ॥

此殿触之令人舒适,既不过寒,也不缺乏法的果报;殿中有居所与座位,秀美明亮,由伐楼那守护。

2.9.6

यस्यामास्ते स वरुणो वारुण्या च समन्वितः ।
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः ॥ २.९.६ ॥

伐楼那与伐楼尼同坐于此殿之中,身着嵌满宝石的神衣,佩戴神圣的饰物。

2.9.7

द्वितीयेन तु नाम्ना वै गौरीति भुवि विश्रुता ।
पत्न्या सवरुणो देवः प्रमोदति सुखी सुखम् ॥ २.९.७ ॥

第二位,在大地上以高利之名闻名,与他的妻子一起,神祇伐楼那快乐地欢喜着。

2.9.8

स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः ।
आदित्यास्तत्र वरुणं जलेश्वरमुपासते ॥ २.९.८ ॥

佩戴花环,散发神圣香气,涂抹神圣香膏的阿底提耶们,在那里侍奉水之主伐楼那。

2.9.9

वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा ।
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ॥ २.९.९ ॥

婆苏吉、德叉迦、龙王爱罗婆多,还有黑、赤、莲花,以及勇猛的奇特罗。

2.9.10

कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ।
मणिमान्कुण्डधारश्च कर्कोटकधनञ्जयौ ॥ २.९.१० ॥

龙王坎巴拉与阿什瓦塔拉,德里塔拉湿陀罗与巴拉诃迦,摩尼曼,昆陀陀罗,迦尔科陀迦与财胜。

2.9.11

पाणिमान्कुण्डधारश्च बलवान्पृथिवीपते ।
प्रह्रादो मुषिकादश्च तथैव जनमेजयः ॥ २.९.११ ॥

手持者、持环者、力大者,哦大地之主,还有钵罗诃罗陀、鼠食者,以及同样的遮那耶阇耶。

2.9.12

पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ।
अर्थो धर्मश्च कामश्च वसुः कपिल एव च ॥ २.९.१२ ॥

持旗者、盘曲者、有冠者,各类俱全;还有利、法、欲、婆苏与迦毗罗。

2.9.13

अनन्तश्च महानागो यं दृष्ट्वा जलजेश्वरः ।
अभ्यर्चयति सत्कारैरासनेन च तं विभुः ॥ २.९.१३ ॥

大蛇阿南多(Ananta)出现时,水之主、威力无边的伐楼那以敬意与座位礼待他。

2.9.14

वासुकिप्रमुखाश्चैव सर्वे प्राञ्जलयः स्थिताः ।
अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च ॥ २.९.१४ ॥

以婆苏吉为首的诸蛇皆合掌站立;得到舍沙的许可后,他们依礼而坐。

2.9.15

एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर ।
वैनतेयश्च गरुडो ये चास्य परिचारिणः।
उपासते महात्मानं वरुणं विगतक्लमाः ॥ २.९.१५ ॥

坚战啊,那里有这些以及许多其他蛇;毗那多之子迦楼罗和他的侍从们毫不疲倦,侍奉大德伐楼那。

2.9.16

बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः ।
संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः ॥ २.९.१६ ॥

毗卢遮那之子国王钵利,征服大地的那落迦,僧诃罗陀,毗婆质多,以及迦罗钦遮。

2.9.17

सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः ।
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥ २.९.१७ ॥

苏诃奴、杜尔穆卡、商佉、苏摩那、随后是苏摩提、瓶腹、大胁、克拉塔那,以及毗塔罗。

2.9.18

विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः ।
दशग्रीवश्च वाली च मेघवासा दशावरः ॥ २.९.१८ ॥

毗湿伐罗钵、苏卢钵、毗卢钵,随后是大头、十颈、波利、云衣,以及十下。

2.9.19

टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः ।
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ॥ २.९.१९ ॥

提提婆、毘吒浮多、因陀罗的折磨者僧诃罗陀,以及所有的提多与檀那婆众,都佩戴着华美的耳环。

2.9.20

स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः ।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥ २.९.२० ॥

他们都戴着花环、头冠,穿着天界的华服,都已获得恩赐,皆为无死的勇士。

2.9.21

ते तस्यां वरुणं देवं धर्मपाशधरं सदा ।
उपासते महात्मानं सर्वे सुचरितव्रताः ॥ २.९.२१ ॥

他们常年侍奉持法索的伟大神灵伐楼那;他们都奉持善良的誓愿。

2.9.22

तथा समुद्राश्चत्वारो नदी भागीरथी च सा ।
कालिन्दी विदिशा वेणा नर्दमा वेगवाहिनी ॥ २.९.२२ ॥

同样,四大海洋、婆吉罗提河、迦林迪河、毗底舍、吠那河、那尔摩达河以及急流之河都在那里。

2.9.23

विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती ।
इरावती वितस्ता च सिन्धुर्देवनदी तथा ॥ २.९.२३ ॥

毗波沙、设多卢、月河、萨罗室伐底、伊罗婆底、毗多斯塔,以及神河信度,同样都在那里。

2.9.24

गोदावरी कृष्णवेणी कावेरी च सरिद्वरा ।
किम्पुना च विशल्या च तथा वैतरणी नदी ॥ २.९.२४ ॥

高达瓦里、黑河(克利希那维尼)、河中最胜的劫毗梨、金普那、毗舍利耶,以及吠多兰尼河,都在那里。

2.9.25

तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः ।
चर्मण्वती तथा चैव पर्णाशा च महानदी ॥ २.९.२५ ॥

第三条是 Jyeṣṭhilā,大河 Śoṇa,Carmaṇvatī 以及大河 Parṇāśā。

2.9.26

सरयूर्वारवत्याऽथ लाङ्गली च सरिद्वरा ।
करतोया तथाऽऽत्रेयी लौहित्यश्च महानदः ॥ २.९.२६ ॥

Sarayū、Vāravatī、最好的河流 Lāṅgalī、Karatoyā、Ātreyī,以及大河 Lauhitya。

2.9.27

लङ्घती गोमती चैव सन्ध्या त्रिस्रोतसी तथा ।
एताश्चन्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः ॥ २.९.२७ ॥

Laṅghatī、Gomatī、Sandhyā 和 Triḥsrotasī,以及这些和其他有良渡口的河流,啊,王中之王,闻名于世。

2.9.28

सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च ।
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर। ॥ २.९.२८ ॥

啊,Yudhiṣṭhira,各处的其他河流、圣渡口、湖泊、水井和泉水,皆化为有形之身。

2.9.29

पल्वलानि तटाकानि देहवन्त्यथ भारत ।
दिशस्तथा मही चैव तथा सर्वे महीधराः ॥ २.९.२९ ॥

啊,婆罗多,池塘与小湖也化为有形之身;四方、大地以及一切山岳亦然。

2.9.30

उपासते महात्मानं सर्वे जलचरास्तथा ।
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः ॥ २.९.३० ॥

一切水中生灵都侍奉这位大德,持有歌唱与乐器的乾闼婆与阿普萨拉斯诸群亦然。

2.9.31

स्तुवन्तो वरुणं तस्यां सर्व एव समासते ।
महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः ॥ २.९.३१ ॥

在那里,众人都坐着赞颂伐楼那;还有满是珍宝的山岳,以及在那里确立的河流。

2.9.32

कथयन्तः सुमधुराः कथास्तत्र समासते ।
वारुणश्च तथा मन्त्री सुनाभः पर्युपासते ॥ २.९.३२ ॥

他们在那里坐着讲述极甜美的故事;伐楼那之子与大臣苏那婆也侍奉在侧。

2.9.33

पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च ।
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ॥ २.९.३३ ॥

被子孙环绕的名为“牛”者,还有普什卡罗,他们都现出形体,侍奉那位主宰。

2.9.34

एषा मया सम्पतता वारुणी भरतर्षभ ।
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ॥ २.९.३४ ॥

婆罗多族的雄牛啊,我飞行时看见了这伐楼那的集会,我先前也曾见过。现在请听库贝罗的集会。