摩诃婆罗多 · 章 3.124
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.124.1
कस्य चित्त्वथ कालस्य त्रिदशावश्विनौ नृप ।
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् ॥ ३.१२४.१ ॥
国王啊,过了一段时间,两位天神阿什文们看见了沐浴后、未被遮掩的苏干雅。
3.124.2
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव ।
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् ॥ ३.१२४.२ ॥
他们看见她肢体优美,仿佛是天王的女儿,便快步走近,说了这番话。
3.124.3
कस्य त्वमसि वामोरु वनेऽस्मिन्किं करोषि च ।
इच्छाव भद्रे ज्ञातुं त्वां तत्वमाख्याहि शोभने ॥ ३.१२४.३ ॥
美丽的大腿女子,你是谁家的?你在这森林里做什么?善良而光彩的女子,我们想知道你,请告诉我们。
3.124.4
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ।
शर्यातितनयां वित्तं भार्यां मां च्यवनस्य च ॥ ३.१२४.४ ॥
于是苏干雅穿好衣服,对那两位最优秀的天神说:“我是舍耶提之女,以车耶那之妻而闻名。”
3.124.5
नाम्ना चाहं सुकन्येति नृलोकेऽस्मिन्प्रतिष्ठिता ।
साऽहंसर्वात्मना नित्यं भर्तारमनुवर्तिनी ॥ ३.१२४.५ ॥
在这人间,我以“苏干雅”之名闻名。我全心全意,永远追随我的丈夫。
3.124.6
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु ।
कथं त्वमसि कल्याणि पित्रा दत्ताऽऽगता वने ॥ ३.१२४.६ ॥
于是双阿什文笑着又对她说:“吉祥的女子,你既是父亲所嫁,怎么会来到森林里?”
3.124.7
भ्राजसेऽस्मिन्वने भीरु विद्युत्सौदामनी यथा ।
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥ ३.१२४.७ ॥
胆怯的女子啊,你在这森林中光彩照人,如闪电一般。光辉的女子啊,即使在诸神之中,我们也未见与你相等者。
3.124.8
अनाभरणसंपन्ना परमाम्बरवर्जिता ।
शोभयस्यधिकं भद्रे वनमप्यनलंकृता ॥ ३.१२४.८ ॥
吉祥的女子啊,你虽无饰物,没有华美的衣裳,也未加装扮,却极大地增添了这森林的光彩。
3.124.9
सर्वाभरणसंपनना परमाम्वरधारिणी ।
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी ॥ ३.१२४.९ ॥
肢体无瑕的女子啊,若佩戴一切饰物、身着华服,你本会光彩夺目;而不是这样满身污垢。
3.124.10
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् ।
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् ॥ ३.१२४.१० ॥
吉祥的女子啊,你既是这样,为何要侍奉一个被衰老折磨、被剥夺欲乐的丈夫呢?
3.124.11
असमर्थं परित्राणे पोषणे तु शुचिस्मिते ।
सा त्वं च्यवनमुत्सृज्यवरयस्वैकमावयोः ॥ ३.१२४.११ ॥
笑容纯净的女子啊,他既无力保护,也无力供养。你应舍弃车耶那,在我们二人之中选择一人。
3.124.12
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ।
एवमुक्ता सुकन्याऽपि सुरौ ताविदमब्रवीत् ॥ ३.१२४.१२ ॥
容光如神祇之胎的女子啊,不要为了丈夫而白白耗费你的青春。被这样说后,苏康雅对那两位天神说了这些话。
3.124.13
रताऽहं च्यवने पत्यौ मैवं मां पर्यशङ्कतम् ।
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ ॥ ३.१२४.१३ ॥
我忠于我的丈夫车耶那,请勿如此怀疑我。于是那两位天神中最优秀的医师又对她说。
3.124.14
युवानं रूपसंपन्नं करिष्यावः पतिं तव ।
ततस्तस्यावयोश्चैव वृणीष्वान्यतमं पतिम्।
एतेन समयेनैनमामन्त्रय पतिं शुभे ॥ ३.१२४.१४ ॥
我们会让一位英俊的青年成为你的丈夫。然后你从他和我们两人中选择一位作为丈夫。以此条件,哦吉祥的女子,请召唤这位丈夫。
3.124.15
सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम् ।
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति ॥ ३.१२४.१५ ॥
大王啊,依照他们二人的话,她走近婆利古的后裔,对婆利古之子说出了他们所说的话。
3.124.16
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति ।
सा भर्त्रा समनुज्ञाता क्रियतामित्यथाब्रवीत् ॥ ३.१२४.१६ ॥
车耶那听后对妻子说:“就这样办吧。”得到丈夫允许后,她说:“就这样办吧。”
3.124.17
श्रुत्वा तदश्विनौ वाक्यं तस्यास्तत्क्रियतामिति ।
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः ॥ ३.१२४.१७ ॥
双马童听了她的话,对公主说:“让你的丈夫进入水中。”
3.124.18
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ।
अश्विनावपि तद्राजन्सरः प्राविशतां तदा ॥ ३.१२४.१८ ॥
于是渴望美貌的车耶那迅速入水。大王啊,那时双马童也进入了那湖。
3.124.19
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्त्रयः ।
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः।
तुल्यवेषधराश्चैव मनसः प्रीतिवर्धनाः ॥ ३.१२४.१९ ॥
随后片刻之后,三人从湖中走出,皆为具有天神之形的青年,佩戴光亮的耳环,装束相同,令心意欢喜增长。
3.124.20
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे ।
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि ॥ ३.१२४.२० ॥
众人齐声说:“吉祥的女子啊,请从我们中选择一人吧,你心中所愿为夫者,善色的女子啊。”
3.124.21
त्वमश्विनोरन्यतरं च्यवनं वा यशस्विनि ।
यत्र वाऽप्यभिकामाऽसि तं वृणीष्व सुशोभने ॥ ३.१२४.२१ ॥
荣耀的女子啊,你可从双Aśvin中择一,或选择Cyavana,或任你所爱者,光彩照人的女子啊。
3.124.22
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ।
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् ॥ ३.१२४.२२ ॥
她看见他们都以相同的形貌站立,便以心与智慧作出决断,这位如天女般的女子选择了自己的丈夫。
3.124.23
लब्ध्वा तु च्यवनो भार्यांवयोरूपं च वाञ्छितम् ।
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः ॥ ३.१२४.२३ ॥
车耶那既得妻子,又得所愿的青春之形,心中欢喜,这位大光明者便对二位那萨提亚说了这番话。
3.124.24
यथाऽहं रूपसंपन्नो वयसा च समन्वितः ।
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् ॥ ३.१२४.२४ ॥
我本是年老之人,你们二位使我得以具足美貌与青春,我也得到了这位妻子。
3.124.25
तस्माद्युवां करिष्यामि प्रीत्याऽहं सोमपीथिनौ ।
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् ॥ ३.१२४.२५ ॥
因此,为你们这两位饮苏摩者,我欣然去做。在众神之王面前,我如实告诉你们。
3.124.26
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः ।
च्यवनश्च सुकन्या च सुराविव विजह्रतुः ॥ ३.१२४.२६ ॥
二神听后心中欢喜,便返回天界;而遮罗那与苏甘雅则如诸神一般快乐地生活。