摩诃婆罗多 · 章 3.176
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.176.1
ततो मामिविश्वस्तं संरूढशरविक्षतम् ।
देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥ ३.१७६.१ ॥
于是天王怜悯我——我心神不定,身上留着已愈合的箭伤——在适当的时候对我说了这些话。
3.176.2
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत ।
न त्वाऽभिभवितुं शक्तो मानुषो भुवि कश्चन ॥ ३.१७६.२ ॥
婆罗多之后啊,一切天界神兵都存在于你身中;大地上没有任何凡人能够战胜你。
3.176.3
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः ।
संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥ ३.१७६.३ ॥
毗湿摩、德罗纳、钵罗、迦尔纳、沙恭尼,连同诸王,即使在战场上站立的你面前,也不配你的十六分之一,儿啊。
3.176.4
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः ।
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥ ३.१७६.४ ॥
主宰者摩ghavan(因陀罗)赐给我这件护身甲,一副不可穿透的神圣铠甲,还有一条金色花环。
3.176.5
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् ।
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥ ३.१७६.५ ॥
天神赐给我能发出巨大声响的天授海螺,而这顶天界王冠则是因陀罗亲自为我戴在头上的。
3.176.6
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च ।
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥ ३.१७६.६ ॥
然后,帝释(因陀罗)赐给我天界的衣裳和天界的饰物——这些美丽而华贵的物件。
3.176.7
एवं संपूजितस्तत्रसुखमस्म्युषितो नृप ।
इन्द्रस् भवने पुण्ये गन्धर्वशिशुभिः सह ॥ ३.१७६.७ ॥
王啊,我在那里受到如此尊敬,与乾闼婆少年一同在因陀罗神圣的宫殿中快乐地居住。
3.176.8
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह ।
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥ ३.१७६.८ ॥
于是因陀罗心生喜悦,与众天神一同对我说:“阿周那,你该回去的时候到了;你的兄弟们在思念你。”
3.176.9
एवमिन्द्रस्य भवने पञ्चवर्षाणि भारत ।
उषितानि मया राजन्स्मरता द्यूतजं कलिम् ॥ ३.१७६.९ ॥
如此,在因陀罗的宫中,婆罗多啊,我住了五年,王啊,常念及由掷骰之戏所生的争端。
3.176.10
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् ।
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥ ३.१७६.१० ॥
随后,我到达乾陀摩陀那,在这座山的顶峰上,看见你被兄弟们环绕。
3.176.11
दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत ।
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥ ३.१७६.११ ॥
幸运的是,达那耶,你获得了神圣的武器,婆罗多啊;幸运的是,众神之主、强大的王已被你取悦。
3.176.12
दिष्ट्या च भगवन्स्थाणुर्देव्या सह परंतपः ।
साक्षाद्दृष्टः स्वयुद्धेन तोषितश् त्वयाऽनघ ॥ ३.१७६.१२ ॥
幸运的是,尊贵者啊,你亲眼见到了与天女同在的斯塔努(湿婆),灭敌者啊;你以自己的战斗使他欢喜,无垢者啊。
3.176.13
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ ।
दिष्ट्या वर्धामहे पार्थ दिष्ट्याऽसि पुनरागतः ॥ ३.१७६.१३ ॥
婆罗多族的雄牛啊,幸运的是你与世界守护者相遇。阿周那啊,幸运的是我们得以兴旺;幸运的是你又回来了。
3.176.14
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् ।
पश्यामि भूमिं कौन्तेय त्वया मे प्रतिपादिताम्।
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ॥ ३.१७६.१४ ॥
今天我看到这整片神圣的大地,被城市环绕、已被征服,是你,俱卢之子,赐予我的;我想德兰多罗使的儿子们也已被制服。
3.176.15
इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत ।
यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः ॥ ३.१७६.१५ ॥
婆罗多的后裔啊,我想看看那些神圣的武器,正是凭它们,那些勇猛的尼婆多迦婆迦被杀死。
3.176.16
सः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः ।
निवातकवचा घोरा यैर्मया विनिपातिताः ॥ ३.१७६.१६ ॥
黎明时分,你将看到所有那些神圣的武器,我正是凭它们击倒了可怖的尼婆多迦婆迦。
3.176.17
एवमागमनं तत्र कथयित्वा धनंजयः ।
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥ ३.१७६.१७ ॥
在那里如此叙述了自己归来的经过之后,财胜(阿周那)与所有兄弟一同度过了那一夜。