マハーバーラタ · 章 3.239
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.239.1
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः ।
हृष्टो भूत्वापुनर्दीनो राधेयमिदमब्रवीत् ॥ ३.२३९.१ ॥
カルナの言葉を聞き、王ドゥルヨーダナは最初は喜んだが、再び意気消沈して、ラーダーの子カルナにこう言った。
3.239.2
ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम् ।
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्रपाण्डवाः ॥ ३.२३९.२ ॥
カルナよ、お前の言うことはすべて私の心にある。しかし、パーンダヴァたちのいる所へ行く許しは得られないだろう。
3.239.3
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः ।
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥ ३.२३९.३ ॥
王ドリタラーシュトラは、あの英雄たちのために嘆き、苦行の力によってパーンダヴァたちを自分より優れていると考える。
3.239.4
अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् ।
एतामप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥ ३.२३९.४ ॥
あるいは、王が我々の意図を察したならば、将来の結果を守るために、許可を与えるべきではない。
3.239.5
न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम् ।
उन्माथनमृते तेषां वनस्थानामपि द्विषाम् ॥ ३.२३९.५ ॥
二元林では、そこに住む敵を打ち滅ぼすこと以外に目的はない。
3.239.6
जानासिहि यथा क्षत्ता द्यूतकाल उपस्थिते ।
अब्रवीद्यच्च मां त्वां च सौबलं वचनं तदा ॥ ३.२३९.६ ॥
賭博の時が訪れたとき、クシャッタ(ヴィドゥラ)が当時、私とお前とサウバラ(シャクニ)に言った言葉を、お前は知っているだろう。
3.239.7
तानिसर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् ।
विचिन्त्य निश्चय गच्छे गमनायेतराय वा ॥ ३.२३९.७ ॥
それらの言葉と、嘆きの中で語られた他の事柄をよく考えた上で、私は行くか、別の目的のために留まるかを決めよう。
3.239.8
ममापि हिमहान्हर्षो यदहं भीमफल्गुनौ ।
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥ ३.२३९.८ ॥
森で苦しむビーマとパールグナを、クリシュナーと共にいるのを見ることは、私にも大きな喜びとなるだろう。
3.239.9
न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम् ।
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥ ३.२३९.९ ॥
この大地を手に入れても、パーンドゥの息子たちが樹皮と鹿皮をまとっているのを見たときほどの喜びは得られないだろう。
3.239.10
किंनु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् ।
द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥ ३.२३९.१० ॥
カルナよ、これより大きなことが何かあろうか。ドルパダの娘ドラウパディーが森で赤褐色の衣をまとっているのを見ることより。
3.239.11
यदि मां दर्मराजश्च भीमसेनश्च पाण्डवः ।
युक्तं रपरमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥ ३.२३९.११ ॥
法王と、パーンダヴァのビーマセーナが、私が最高の輝きに満ちているのを見てくれたなら、私の命は実を結ぶだろう。
3.239.12
उपायं न तु पश्यामि येन गच्छेम तद्वनम् ।
यथाचाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥ ३.२३९.१२ ॥
しかし、我々があの森へ行く手段も、王が私の出立を許してくれる方法も、私には見えない。
3.239.13
स सौबलेन सहितस्तथा दुःशासनेन च ।
उपायं पश्य रनिपुणं येन गच्छेम तद्वनम् ॥ ३.२३९.१३ ॥
彼はサウバラとドゥフシャーサナと共にいた。(彼は言った:)我々があの森へ行けるような巧みな手段を考えよ。
3.239.14
अहमप्यनुगच्छामि गमनायेतराय च ।
कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥ ३.२३९.१४ ॥
私も彼に従って行こう、出発のため、そしてもう一つの目的のために。明日、私は必ず王のもとへ行こう。
3.239.15
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे ।
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥ ३.२३९.१५ ॥
私がそこに座り、クル族の最良の者ビーシュマも座ったなら、考え出された手段を、サウバラと共に彼に伝えよ。
3.239.16
ततो भीष्मस्य राज्ञश्च निशम्य रगमनं प्रति ।
व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥ ३.२३९.१६ ॥
その後、ビーシュマと王が出発すると聞いて、祖父を説得した上で、私はその企てに取りかかろう。
3.239.17
तथेत्युक्त्वा तु ते सर्वेग्मुरावसथान्प्रति ।
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥ ३.२३९.१७ ॥
「そうしよう」と言って、彼らは皆それぞれの宿所へ向かった。夜が明けると、カルナが王のもとへ近づいた。
3.239.18
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् ।
उपायः परिदृष्टोऽयं तं निबोधजनेश्वर ॥ ३.२३९.१८ ॥
するとカルナは笑いながらドゥリヨーダナにこう言った。人の王よ、この手段はよく見通された。よく理解せよ。
3.239.19
घोषा द्वैतवने सर्वेत्वत्प्रतीक्षा नराधिप ।
घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ ३.२३९.१९ ॥
人の主よ、二林の牧人たちは皆あなたを待っています。牛群視察の旅を口実に、我らは必ず参ります。疑いはありません。
3.239.20
उचितं हि सदा गन्तुं घोषयात्रां विशांपते ।
एवं चेत्त्वां पिता राजन्समनुज्ञातुमर्हति ॥ ३.२३९.२० ॥
民の主よ、牛群視察の旅に出ることは常にふさわしいことです。王よ、そうであれば父君は御身に許可を与えるべきです。
3.239.21
तथा कथयमानौ तु घोषयात्राविनिश्चयम् ।
गान्धारराजः शकुनिरित्युवाच हसन्निव ॥ ३.२३९.२१ ॥
二人が牛群視察の旅について決めかねてこのように話していると、ガーンダーラの王シャクニは笑いながら言った。
3.239.22
उपायोऽयंमया दृष्टो गमनाय निरामयः ।
अनुज्ञास्यतिनो राजा चोदयिष्यति चाप्युत ॥ ३.२३९.२२ ॥
私が見出したこの出発の手段は完璧です。王は我らに許可を与え、さらには促しさえするでしょう。
3.239.23
घोषा द्वैतव्रने सर्वेत्वत्प्रतीक्षा नराधिप ।
घोषयात्रापदेशेन गमिष्यामः सरः प्रति ॥ ३.२३९.२३ ॥
人の主よ、二林の牧人たちは皆あなたを待っています。牛群視察の旅を口実に、我らは湖へ向かいましょう。
3.239.24
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः ।
तदेव च विनिश्चेत्य ददृशुः कुरुसत्तमम् ॥ ३.२३९.२४ ॥
すると彼らは皆笑い、互いの掌を打ち鳴らした。まさにそのことを決めて、彼らはクルの最上の人を見た。