摩诃婆罗多 · 章 3.257
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.257.1
ततस्तु शिल्पिनः सर्वं कृतमूर्चुर्नराधिपम् ।
विदुरश्च महाप्राज्ञो धृतराष्ट्रे न्यवेदयत् ॥ ३.२५७.१ ॥
于是工匠们向国王禀报一切已备妥,大智慧的毗杜罗便将此事禀告了持国。
3.257.2
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत ।
सौवर्णं च कृतं सर्वं लाङ्गलं च महाधनम् ॥ ३.२५७.२ ॥
大王啊,婆罗多的后裔啊,殊胜的祭祀按时准备就绪;一切皆以黄金制成,连价值极高的犁也是如此。
3.257.3
एवच्छ्रुत्वा नृपश्रेष्ठो धृतराष्ट्रो विशंपते ।
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥ ३.२५७.३ ॥
听闻此事,人民之主啊,诸王中最优秀的持国便下令开始那场王者之祭。
3.257.4
ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः ।
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥ ३.२५७.४ ॥
于是,物资丰富、准备妥善的祭祀开始了;甘陀利也依照经典、按次第受了灌顶之礼。
3.257.5
प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः ।
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥ ३.२५७.५ ॥
持国、大名远扬的毗杜罗、毗湿摩、德罗纳、克里帕、迦尔纳以及荣耀的甘陀利都欢喜不已。
3.257.6
निमन्त्रणार्थं दूर्तांश्च प्रेषयामास शीघ्रगान् ।
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ॥ ३.२५७.६ ॥
大王啊,他派遣迅速的使者去邀请诸王和婆罗门。
3.257.7
ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः ।
तत्र कचित्प्रयान्तं तु दूतं दुःशासनोऽब्रवीत् ॥ ३.२५७.७ ॥
使者们依指示乘快车出发。途中,难近对其中一位正在出发的使者说道。
3.257.8
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ।
निमन्त्रय यथान्यायं विप्रांस्त स्मिन्वने तदा ॥ ३.२५७.८ ॥
快去二时林,依礼邀请那些有罪的般度五子以及林中的婆罗门。
3.257.9
स गत्वा पाण्डवान्सर्वानुवाचाभिप्रणम्य च ।
दुर्योधनो महाराज यजते नृपसत्तमः ॥ ३.२५७.९ ॥
他走到般度五子面前,向众人行礼后说道:“大王,诸王中最优秀的难敌正在举行祭祀。”
3.257.10
स्ववीर्यार्जितमर्थौघमवाप्य कुरुसत्तमः ।
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥ ३.२५७.१० ॥
这位库鲁的最优秀者凭自身的勇力获得了巨大的财富,正在那里举行祭祀;国王和婆罗门从四面八方前往那里。
3.257.11
अहं तु प्रेषितो राजन्कौरवेण महात्मना ।
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः।
मनोभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥ ३.२५७.११ ॥
大王,我是受那位大度的俱卢后裔所派遣的。持国之子、人主国王邀请你们;你们应当前去观看国王心中所愿的那场祭祀。
3.257.12
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् ।
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः।
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥ ३.२५७.१२ ॥
于是国王坚战听了使者的话,这位诸王中的猛虎说道:“甚幸!能增添先人光荣的苏约达那王正在举行主要的祭祀。”
3.257.13
वयमप्युपयास्यामो न त्विदानीं कथंचन ।
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥ ३.२५७.१३ ॥
我们也将返回,但绝不是现在。我们约定的期限必须遵守,直到第十三年结束。
3.257.14
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् ।
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥ ३.२५७.१४ ॥
闻听法王此言,毗摩说道:那么前往的将是法王坚战王。
3.257.15
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति ।
वर्षात्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥ ३.२५७.१५ ॥
当在兵器燃烧的火中,十三年之后,人主在战争祭祀中将他击倒之时。
3.257.16
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः ।
आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥ ३.२५७.१६ ॥
当般度之子将愤怒的祭品倾注于持国之子身上时,他们便会到来;此言应当告知那位苏敕陀那。
3.257.17
शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम् ।
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥ ३.२५७.१७ ॥
大王,其余般度之子未说任何不悦之语,使者也将所发生之事如实禀告了持国之子。
3.257.18
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः ।
ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति ॥ ३.२५७.१८ ॥
于是,哦,有福者,诸多国土之主、人中俊杰以及婆罗门,前往持国之子的城市而来。
3.257.19
ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम् ।
मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः ॥ ३.२५७.१९ ॥
依照经典、依礼制、按次序受到尊敬,充满至上喜悦的众王也都心生欢喜。
3.257.20
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः ।
हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥ ३.२५७.२० ॥
王中之王啊,被所有考拉瓦人簇拥、充满大喜的持国也对毗杜罗说道。
3.257.21
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः ।
तुष्येत्तु यज्ञसदने तथा नीतिर्विधीयताम् ॥ ३.२५७.२१ ॥
毗杜罗啊,应当这样安排,使众人都有食物而快乐,并在祭祀堂中满足。
3.257.22
विदुरस्तु तदाज्ञाय सर्ववर्णानरिंदम ।
यथा प्रमाणतो विद्वान्पूजयामास धर्मवित् ॥ ३.२५७.२२ ॥
降伏敌人者啊,毗杜罗明白此意,作为通晓法的智者,依照各人的等次尊敬了所有种姓。
3.257.23
भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः ।
वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥ ३.२५७.२३ ॥
以饮食、饮料、谷物和浆汁,以芳香的花环和各色衣物,他欢喜地为他们安排妥当。
3.257.24
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् ।
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु।
विसर्जयामास नपान्ब्राह्मणांश्च सहस्रशः ॥ ३.२५७.२४ ॥
英雄般的王中之王依照经典、按次序完成阿伐布利陀沐浴,安慰众人,赠予各种财富,然后送别诸王与数千婆罗门。
3.257.25
विसृज्यच नृपान्सर्वान्भ्रातृभिः परिवारितः ।
विवेश हास्तिनपुरं सहितः कर्णसौबलैः ॥ ३.२५७.२५ ॥
送走所有诸王后,被兄弟们簇拥着,他与迦尔纳和沙恭尼一同进入了象城(Hāstinapura)。