Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.23.1

अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि ।
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ ४.२३.१ ॥

我以侍女之装居于王宫,因掷骰作弊者之故,我受制于苏提什那。

4.23.2

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप ।
आसे कालमुपासीना सर्वदुःखसहा पुनः ॥ ४.२३.२ ॥

请看我所受的深重屈辱,征服敌人者啊。我身为王女,仍忍受一切苦难,静坐等待时机。

4.23.3

अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च ।
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ ४.२३.३ ॥

我想到凡人的财富与灾祸本是无常的,因此又在等待夫君们重新兴起。

4.23.4

चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च ।
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ ४.२३.४ ॥

我想到财富与灾祸如车轮般轮转,因此又在等待夫君们重新兴起。

4.23.5

य एव हेतुर्भवति पुरुषस्य जयावहः ।
पराजये च हेतुः स इति च प्रतिपालये ॥ ४.२३.५ ॥

那使人获胜的原因,也正是导致失败的原因。我知此理,因而守候着时机。

4.23.6

दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते ।
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ ४.२३.६ ॥

人给予之后又去乞求,杀人之后自己也被杀,打倒他人之后又被敌人打倒——我如此听说。

4.23.7

न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम् ।
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ ४.२३.७ ॥

命运没有过度的重负,也无法超越它。因此我再次等待命运的到来。

4.23.8

स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति ।
इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ॥ ४.२३.८ ॥

水曾经停留的地方,不会再停留。人们因此希望转变;我再次等待兴起。

4.23.9

दैवेन किल यस्यार्थः सुनीतोपि विपद्यते ।
सदा दैवागमे यत्नस्तेन कार्यो विजानता ॥ ४.२३.९ ॥

即使某人的目的经过周密谋划,仍会因命运而败坏;因此智者应在命运到来时始终努力。

4.23.10

किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् ।
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ॥ ४.२३.१० ॥

今日我所说之言有何用意?请问我这悲伤之人;即使你未问,我也告诉你。

4.23.11

महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च ।
इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ॥ ४.२३.११ ॥

我是般度诸子的正妃,德鲁帕达之女。除我之外,谁处于此境地还愿意活下去呢?

4.23.12

कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत ।
पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम ॥ ४.२३.१२ ॥

婆罗多的后裔啊,降伏敌人者啊,我的悲痛已传到般度五子那里,甚至绕过了俱卢与般遮罗。

4.23.13

भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता ।
एवं समुदिता नारी कान्वेयं दुःखभागिनी ॥ ४.२३.१३ ॥

被兄弟、公公和众多儿子环绕,如此受尊敬的女子,如今竟成了这般苦难的承受者。

4.23.14

नूनं बालतया धातुर्मया वै विप्रियं कृतम् ।
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ॥ ४.२३.१४ ॥

必定是因我年幼无知,曾得罪了造物主;由于他的力量,婆罗多中的雄牛啊,我才落入这般不幸。

4.23.15

वर्णं विकारमपि मे पश्य पाण्डव यादृशम् ।
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ॥ ४.२३.१५ ॥

般度之子啊,请看我肤色的变化,已成了这般模样;以往即使身处极大的苦难,我也不曾如此。

4.23.16

त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा ।
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे ॥ ४.२३.१६ ॥

婆罗多,只有你知道我从前的快乐,普利塔之子啊;如今的我已沦为奴仆,内心不得安宁。

4.23.17

तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः ।
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ॥ ४.२३.१७ ॥

我认为这是天命:普利塔之子持弓猛士达难闍耶,在大战场上却像熄灭的火一样安静地坐着。

4.23.18

अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः ।
विनिपातमिमं पश्य युष्माकमविचिन्तितम् ॥ ४.२३.१८ ॥

普利塔之子啊,众生的命运是人所无法知晓的;看看你们这场始料未及的沦落吧。

4.23.19

यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा ।
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ॥ ४.२३.१९ ॥

你们如同因陀罗一般,常常注视我的面容;如今我身为卑贱者中最尊贵的,却要去看别的女子的脸。

4.23.20

पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ॥ ४.२३.२० ॥

般度之子啊,请看我此刻的处境,我本不该如此;尊贵的施荣者啊,你们与般遮罗人仍然在世。

4.23.21

यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी ।
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ॥ ४.२३.२१ ॥

曾经,大地直至海洋边界都服从于她;如今这位般遮罗女,却听命于苏德什娜。

4.23.22

यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः ।
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ ४.२३.२२ ॥

我曾有侍从行于前、随从行于后;如今我却行于苏德什娜的前后。

4.23.23

इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ।
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ॥ ४.२३.२३ ॥

昆提之子啊,听听我这难以忍受的苦楚:我从不曾为自己亲手研磨涂身的檀香,除了为昆提之外。愿你安好,而今天我却在研磨檀香。

4.23.24

पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा ।
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ॥ ४.२३.२४ ॥

昆提之子啊,看看我的双手,从前并非如此。说罢,她向他展示了双手上的老茧。

4.23.25

बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन ।
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ॥ ४.२३.२५ ॥

我从不惧怕贡蒂,也不惧怕你们。今日我却因恐惧,作为婢女站在毗罗吒面前。

4.23.26

किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा ।
नान्यपिष्टं विराटस्य चन्दनं किल रोचते ॥ ४.२३.२६ ॥

陛下将对我说什么?那按摩者调配得好还是不好?毗罗吒不喜欢他人研磨的檀香。

4.23.27

सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी ।
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ॥ ४.२३.२७ ॥

美丽的黑公主回想起怖军所受的苦难,依偎在怖军胸前,轻声哭泣。

4.23.28

सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः ।
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ॥ ४.२३.२८ ॥

她哽咽着声音,屡次叹息,触动怖军的心,说了这番话。

4.23.29

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा ।
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ॥ ४.२३.२९ ॥

怖军啊,我往昔对诸神从未犯下丝毫过错;然而不幸的我,虽然死亡可以选择,却仍然活着,啊,般度之子。

4.23.30

कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम् ।
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम्।
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ॥ ४.२३.३० ॥

你若不杀死迦旃迦,我就要毁灭自己:或调配毒药饮下,或投身火中。我是不幸的、无福的、永远痛苦而绝望的人。

4.23.31

पापे निपतितायाश्च किं फलं जीवितेन मे ।
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ॥ ४.२३.३१ ॥

“我既已堕入罪孽,活着还有什么意义?”说罢,她把两只长满老茧的手给他看。

4.23.32

ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः ।
मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ ४.२३.३२ ॥

于是狼腹(比马)握住她那长满老茧的粗壮双手,把她颤抖的脸拉近,这位敌方英雄的杀手便哭了起来。

4.23.33

तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।
ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ ४.२३.३३ ॥

他握住那双手,洒下泪来,这位有力的贡蒂之子被极大的悲痛所折磨,于是说出了这些话。