Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.136

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.136.1

नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि ।
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥ ५.१३६.१ ॥

国王在任何灾难中都不应显出恐惧;即便他已崩溃,也不应像崩溃之人那样行事。

5.136.2

दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते ।
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतीः ॥ ५.१३६.२ ॥

见国王崩溃,国家、军队与大臣便相继瓦解;他们各自离心离德。

5.136.3

शत्रुनेके प्रपद्यन्ते प्रजहत्यपरे पुनः ।
अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ॥ ५.१३६.३ ॥

有人投靠敌人,有人再次离弃;而先前受过轻慢的人,则想要离去。

5.136.4

य एवात्यन्तसुहृदस्त एनं पर्युपासते ।
अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव ॥ ५.१३६.४ ॥

唯有至亲好友仍侍奉在他身边;他们虽无力相助,却为自身的安稳打算,如同被系住小牛的母牛一般围绕着他。

5.136.5

शोचन्तमनुशोचन्ति पतितानिव बान्धवान् ।
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः ॥ ५.१३६.५ ॥

他们随着悲伤的人一同悲伤,如同为战死的亲族哀悼一般;即便是先前受人尊敬、被视为朋友的人,也是如此。

5.136.6

ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ।
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ॥ ५.१३६.६ ॥

即使国王陷入困境,仍关心国家的人,你要尊重他们;你不要泄气,也不要让朋友把你当作崩溃之人而抛弃。

5.136.7

प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव ।
विदधत्या समाश्वासमुक्तं तेजोविवृद्धये ॥ ५.१३६.७ ॥

我想考察你的威力、勇气与智慧,为了安慰你并增长你的精神,我说了这些话。

5.136.8

यदेतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् ।
कृत्वा सौम्यमिवात्मानं जायायोत्तिष्ठ सञ्जय ॥ ५.१३६.८ ॥

若你确实明白我所说的正确之言,那么,桑闪耶,请平静下来,起身吧。

5.136.9

अस्ति नः कोशनिचयो महानविदितस्तव ।
तमहं वेद नान्यस्तमुपसंपादयामि ते ॥ ५.१३६.९ ॥

我们有一大批你不知道的财宝。只有我知道,别人不知;我会为你取来。

5.136.10

सन्ति नैकशता भूयः सुहृदस्तव सञ्जय ।
सुखदुःखसहा वीर संग्रामादनिवर्तिनः ॥ ५.१३६.१० ॥

桑闪耶,你还有数百位朋友,勇士啊,他们能承受苦乐,在战场上从不退缩。

5.136.11

तादृशा हि सहाया वै पुरुषस्य बुभूषतः ।
इष्टं जिहीर्षतः किंचित्सचिवाः शत्रुकर्शन ॥ ५.१३६.११ ॥

的确,想要兴旺、想要得到所愿之物的人,就会有这样的伙伴与谋臣,灭敌者啊。

5.136.12

तस्यास्त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः ।
तमस्त्वपागमत्तस्य सुचित्रार्थपदाक्षरम् ॥ ५.१३६.१२ ॥

他虽听到她这样的话,这个心胸狭窄之人的昏暗却没有散去;她那含义丰富多彩的言辞对他毫无作用。

5.136.13

उदके नौरियं धार्या वक्तव्यं प्रवणे मया ।
यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी ॥ ५.१३६.१३ ॥

水中必须稳住此船;我该对疲惫的人说:你是我的引导者,能看见未来的兴盛。

5.136.14

अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् ।
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ॥ ५.१३६.१४ ॥

我一再渴望听你的话,只是少少地应答,一次又一次地沉默。

5.136.15

अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् ।
उद्यच्छाम्येष शत्रूणां नियमार्थं जायय च ॥ ५.१३६.१५ ॥

如同从亲族那里艰难得来的甘露,永远不会令人满足,我起身要制服敌人,也与妻子一同。

5.136.16

सदश्च इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः ।
तच्चकार तथा सर्वं यथावदनुशासनम् ॥ ५.१३६.१६ ॥

如同良驹被言语之箭策动而奔驰,他也就照着教导的一切,完全遵行了。

5.136.17

इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् ।
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ॥ ५.१३६.१७ ॥

这部振奋人心、令人畏惧、增益威力的至上故事,大臣应当让为敌人所苦而气馁的国王聆听。

5.136.18

जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ।
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ॥ ५.१३६.१८ ॥

名为《胜》的这段历史应当被渴望胜利者聆听;听了之后,他迅速征服大地,并碾碎敌人。

5.136.19

इदं पुंसवनं चैव वीराजननमेव च ।
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ॥ ५.१३६.१९ ॥

这是男胎礼与生英雄之礼。孕妇时常听闻此事,必定生下英雄之子。

5.136.20

विद्याशूरं तपःशूरं दानशूरं तपस्विनम् ।
ब्राह्मया श्रिया दीप्यमानं साधुवादे च संमतम् ॥ ५.१३६.२० ॥

学问上的英雄,苦行上的英雄,布施上的英雄,苦行者,以梵的光辉照耀,并为善人所称赞。

5.136.21

अर्चिष्मन्तं बलोपेतं महाभागं महारथम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥ ५.१३६.२१ ॥

光辉灿烂,具有力量,大有福德,大战车武士,坚定不移,不可侵犯,征服者,且不可战胜。

5.136.22

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥ ५.१३६.२२ ॥

刹帝利女子生下如此英雄:制伏恶人,庇护遵行法道者,真正勇武之人。