Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.152

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.152.1

ततो देशे समे स्निग्धे प्रभूतयवसेन्धने ।
निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥ ५.१५२.१ ॥

于是,国王坚战令大军在平坦、宜人、草料与柴薪充足之地扎营。

5.152.2

परिहृत्य श्मशानानि देवतायतनानि च ।
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥ ५.१५२.२ ॥

避开火葬场、神庙、大仙人的修行处,以及圣渡口与神圣之地(大军扎营)。

5.152.3

मधुरानूषरे देशे शुचौ पुण्ये महामतिः ।
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥ ५.१५२.३ ॥

大智慧的贡蒂之子坚战,令人在一片甘美而贫瘠的土地上扎营,那里清净而吉祥。

5.152.4

ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः ।
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥ ५.१५२.४ ॥

随后他再度起身,心情愉悦,车马已得休息,在数十万国王的簇拥下出发了。

5.152.5

विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् ।
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥ ५.१५२.५ ॥

驱散了持国之子的数百队伍与士兵后,黑天与阿周那一同四处驰骋。

5.152.6

शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः ।
सात्यकिश्च रथोदारो युयुधानश्च वीर्यवान् ॥ ५.१५२.६ ॥

普利沙塔之子猛光令人丈量营地,高贵的车战勇士萨谛奇与勇猛的尤尤丹那亦然。

5.152.7

आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् ।
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥ ५.१५२.७ ॥

抵达俱卢之野的圣河希兰瓦蒂,其渡口便利,水质清净,无沙砾与淤泥。

5.152.8

खानयामास परिखां केशवस्त्रत्र भारत ।
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥ ५.१५२.८ ॥

婆罗多啊,克沙瓦在那里下令挖掘壕沟,并安排防卫,将军队驻扎于此。

5.152.9

विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् ।
तद्विधानि नरेन्द्राणां कारयामास केशवः ॥ ५.१५२.९ ॥

大德的般度之子营中的布置,克沙瓦为诸王也如法安排。

5.152.10

प्रभूततरकाष्ठानि दुराधर्षतराणि च ।
भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः ॥ ५.१५२.१० ॥

大量的柴薪,以及难以耗尽的食物、饮料、谷物与饮品,成百上千。

5.152.11

शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् ।
विमानानीव राजेन्द्र निविष्टानि महीतले ॥ ५.१५२.११ ॥

诸王之主啊,那里诸王极其贵重的营帐各自分设,仿佛天上的宫殿降临大地。

5.152.12

तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः ।
सर्वापकरणैर्युक्ता वैद्याः शास्त्रविशारदाः ॥ ५.१५२.१२ ॥

那里有成百上千的明智工匠,他们领取了报酬,备齐了一切工具;还有精通论典的医者。

5.152.13

ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः ।
ससर्जरकसपांसूनां राशयः पर्वतोपमाः ॥ ५.१५२.१३ ॥

弓弦、弓、铠甲与武器,以及蜂蜜和酥油,还有……与尘土的堆积,如山岳一般。

5.152.14

बहूदकं सुयवसं तुषाङ्गारसमन्वितम् ।
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥ ५.१५२.१४ ॥

国王坚战在每一处营地都安排了充足的水、良好的草料,以及谷壳和木炭。

5.152.15

महायन्त्राणि नाराचास्तोमराणि परश्वधाः ।
धनूंषि कवचादीनि ऋष्टयस्तूणसंयुताः ॥ ५.१५२.१५ ॥

大型器械、铁箭、长矛、战斧、弓、铠甲等,以及投枪与箭袋。

5.152.16

गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः ।
दृश्यन्ते तत्र गिर्याभाः सहस्रशतयोधिनः ॥ ५.१५२.१६ ॥

那里可以看到大象,身披带刺的甲,上覆铁甲,形如山岳,载着成百上千的战士。

5.152.17

निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत ।
अभिसस्रुर्यथादेशं सबलाः सहवाहनाः ॥ ५.१५२.१७ ॥

婆罗多之子啊,得知般度之子驻扎在那里,他们的盟友便各依方向,率领军队与车乘向他们进发。

5.152.18

चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः ।
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥ ५.१५२.१८ ॥

那些持守梵行、饮过苏摩、布施丰厚的君王,为般度诸子的胜利而齐聚一堂。