摩诃婆罗多 · 章 6.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.13.1
अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत ।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥ ६.१३.१ ॥
此时,学者乔瓦尔伽那之子桑闍耶从战场归来,婆罗多的后裔啊。他亲眼见证了一切,通晓过去、现在与未来。
6.13.2
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः ।
आचष्ट निहतं भीष्मं भरतानां पितामहम् ॥ ६.१३.२ ॥
他悲痛地突然起身,告诉沉思中的持国王,婆罗多人的祖父毗湿摩已被杀死。
6.13.3
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ ।
हतो भीष्मः शान्तनवो भरतानां पितामहः ॥ ६.१३.३ ॥
大王,我是桑闍耶。婆罗多之雄,向您致敬。山塔努之子毗湿摩,婆罗多人的祖父,已被杀死。
6.13.4
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् ।
शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥ ६.१३.४ ॥
诸勇士之巅,诸弓手之所依,俱卢的祖父今日卧于箭床之上。
6.13.5
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् ।
स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ॥ ६.१३.५ ॥
你的儿子依仗其威力而设下赌局,那位毗湿摩,大王啊,已在战中被尸舞檀杀死而倒卧。
6.13.6
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे ।
जिगायैकरथेनैव काशिपुर्यां महारथः ॥ ६.१३.६ ॥
他以一辆战车,在迦尸城的大战中战胜了聚集的所有君王,那位大车战士。
6.13.7
जामदग्न्यं रणे रामं योऽयुध्यदपसंभ्रमः ।
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥ ६.१३.७ ॥
在战场上无畏地与耶摩达吉尼之子罗摩交战、却未被耶摩达吉尼之子杀死的那人,今日被尸珂叹蒂所杀。
6.13.8
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव ।
समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः ॥ ६.१३.८ ॥
勇武如因陀罗,坚定如喜马拉雅,深沉如大海,忍耐如大地。
6.13.9
शरदंष्ट्रो धनुर्वक्रः खङ्गिजिह्वो दुरासदः ।
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥ ६.१३.९ ॥
你的父亲,人中狮子,难以接近,以箭为齿,以弓为弯形,以剑为舌,今日被般遮罗人击倒。
6.13.10
पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे ।
प्रावेपत भयोद्विग्नं सिंह दृष्ट्वेव गोगणः ॥ ६.१३.१० ॥
看见般度之子的大军在战场上奋起,它因恐惧而惊慌颤抖,如同牛群见到狮子一般。
6.13.11
परिरक्ष्य स सेनां ते दशरात्रमनीकहा ।
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ ६.१३.११ ॥
他保护你的军队十夜,这位摧毁军队的英雄完成了极为艰难的功绩,如同落日般西沉而去。
6.13.12
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः ।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ ६.१३.१२ ॥
他如因陀罗般不可动摇,成千上万地降下箭雨,在战场上十日之内杀死了一亿名战士。
6.13.13
स शेते निहतो भूमौ वातभग्न इव द्रुमः ।
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥ ६.१३.१३ ॥
他被杀倒在地上,如同被风折断的树木。大王啊,因你的恶谋,他本不该落到这般境地,婆罗多之子啊。