Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.34.1

भूय एव महाबाहो श्रृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ ६.३४.१ ॥

啊,大臂者,请再听我的至上之言。我因喜爱你,出于对你利益的愿望,将要说出。

6.34.2

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ ६.३४.२ ॥

诸神之众与大仙都不知道我的起源,因为我在一切方面都是诸神与大仙的本始。

6.34.3

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ६.३४.३ ॥

知我为不生、无始、世界的大主宰者,便在凡人之中不迷惑,并从一切罪恶中解脱。

6.34.4

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवो भवो भयं चाभयमेव च ॥ ६.३४.४ ॥

觉悟、智慧、不迷惑、忍耐、真实、克制、寂静、乐与苦、生与灭,以及恐惧与无畏。

6.34.5

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ६.३४.५ ॥

不害、平等、知足、苦行、布施、名声与恶名——众生的这些不同状态,唯从我而生。

6.34.6

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भाव मानसा जाता येषां लोक इमाः प्रजाः ॥ ६.३४.६ ॥

往昔的七位大仙与四位摩奴,也从我的心意中、以我的本性而生;这世间的这些众生,正是由他们而来。

6.34.7

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ६.३४.७ ॥

真正知晓我的此显现与瑜伽者,便与不动摇的瑜伽相合,此中无疑。

6.34.8

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ६.३४.८ ॥

我是一切的本源,万物皆由我而起。知此之智者,怀着虔敬之心崇拜我。

6.34.9

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ६.३४.९ ॥

心念专注于我、生命之气归向于我的人,彼此开示,常常谈论我,便感到满足与欢喜。

6.34.10

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ ६.३४.१० ॥

对于常与我相应、怀着爱敬礼拜我的人,我赐予那智慧瑜伽,他们借此来到我这里。

6.34.11

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ६.३४.११ ॥

唯出于对他们的慈悲,安住于自性之中,我以光明的智慧之灯,消除由无明而生的黑暗。

6.34.12

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ ६.३४.१२ ॥

您是至上梵,是至上之住所,是最为纯净者;您是永恒、神圣的补鲁沙,原始之神,无生,遍在。

6.34.13

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथाक ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ ६.३४.१३ ॥

众仙人、天仙那罗陀、阿悉多、提婆罗与毗耶娑都如此称你,而你自己也对我这样说。

6.34.14

सर्वतेमदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ ६.३४.१४ ॥

啊,羯舍婆,你所告诉我的一切我都认为是真实的;然而,尊贵的主啊,神与阿修罗都不知你的显现。

6.34.15

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ ६.३४.१५ ॥

唯有你以自身知道自身,人中至上者啊。众生的创造者、众生之主、天神之神、世界之主啊!

6.34.16

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ ६.३४.१६ ॥

你应当完整地说出你的神圣显现,正是以这些显现,你遍布于这些世界而安住。

6.34.17

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ ६.३४.१७ ॥

瑜伽之主啊,我常常思念你,该如何认识你?尊贵的主啊,在哪些存在状态中,我应当思念你?

6.34.18

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ ६.३४.१८ ॥

啊,遮那陀那,请再详细讲述你的瑜伽与显现;聆听这甘露般的言辞,我永不满足。

6.34.19

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ ६.३४.१९ ॥

好吧,我将主要为你讲述我神圣的自我显现;库鲁之最,我的广大没有尽头。

6.34.20

अहमात्मा गुडाकेश सर्वभूताशयस्थितःक ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ ६.३४.२० ॥

古达凯莎啊,我是居于一切众生心中的自我;我是众生的开始、中间,也是他们的终结。

6.34.21

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ ६.३४.२१ ॥

在阿ditya中我是毗湿奴,在光明中是光芒的太阳;在摩录多中我是摩哩止,在星宿中我是月亮。

6.34.22

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ ६.३४.२२ ॥

在吠陀中我是娑摩吠陀,在天神中我是婆娑(因陀罗);在诸根中我是意,在众生中我是觉知。

6.34.23

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ ६.३४.२३ ॥

在楼陀罗中我是湿婆(商羯罗),在夜叉与罗刹中我是财神(俱毗罗);在婆苏中我是火,在山峰中我是须弥山。

6.34.24

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ ६.३४.२४ ॥

帕尔塔啊,在祭司中,你当知我是首席的布利哈斯帕蒂;在统帅中我是斯刚陀,在湖泊中我是大海。

6.34.25

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ ६.३४.२५ ॥

在大仙人中我是婆利古;在言语中我是唯一的音节(唵)。在祭祀中我是念诵祭;在不动之物中我是喜马拉雅。

6.34.26

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ ६.३४.२६ ॥

在所有树木中我是无花果树(阿湿缚他);在神仙圣人中我是那罗陀。在乾闼婆中我是质子;在成就者中我是迦毗罗牟尼。

6.34.27

उच्चैः श्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ ६.३४.२७ ॥

在马中你应知我是从搅动甘露而生的乌耆诃室罗婆;在象王中是爱罗婆多;在人中是人主,即君王。

6.34.28

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ ६.३४.२८ ॥

在兵器中我是金刚杵;在牛中我是如意牛迦摩度克。在生育者中我是爱神迦摩(甘达帕);在蛇中我是婆苏基。

6.34.29

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ ६.३४.२९ ॥

在蛇中我是无尽龙阿难陀;在水族中我是水神伐楼那。在祖灵中我是阿利耶曼;在制御者中我是阎摩。

6.34.30

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च परिणाम् ॥ ६.३४.३० ॥

在阿修罗中我是波罗诃罗陀;在计算者中我是时间。在兽中我是狮子;在鸟中我是毗那多之子(迦楼罗)。

6.34.31

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ६.३४.३१ ॥

在净化者之中,我是风;在持兵器者之中,我是罗摩。在鱼类之中,我是摩伽罗;在流水之中,我是遮罗尼(恒河)。

6.34.32

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ६.३४.३२ ॥

阿周那啊,万物的开始、中间与终结都是我。在诸学问之中,我是关于自我的知识;在能言者之中,我是辩论。

6.34.33

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ ६.३४.३३ ॥

在字母之中,我是“阿”;在复合词之中,我是并列复合词。我即是不灭的时间,我也是面向四方的创造主。

6.34.34

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्क नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ६.३४.३४ ॥

我是夺去一切的死亡,也是未来将要出现者的起源。在女性之中,我是名声、吉祥、言语、记忆、智慧、坚定与宽恕。

6.34.35

बृहत्साम कतथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ६.३४.३५ ॥

在诸颂歌之中,我是布利哈特萨摩;在诸韵律之中,我是伽耶特里。在诸月之中,我是迷迦始沙月;在诸季之中,我是万花绽放的春季。

6.34.36

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ६.३४.३६ ॥

在善于欺诈者之中,我是赌博;在光辉者之中,我是光辉。我是胜利,我是决心;在有德有力者之中,我是善性。

6.34.37

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ६.३४.३७ ॥

在毗湿尼族中我是婆苏提婆;在般度子孙中我是持财。在仙人中我是毗耶娑;在诗人中我是诗人乌尚那斯。

6.34.38

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ६.३४.३८ ॥

在制服者中我是刑杖;在求胜者中我是政略。在秘密之中我是沉默;在智者之中我是智慧。

6.34.39

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ६.३४.३९ ॥

阿周那啊,凡为一切众生之种子者,那就是我。没有任何动或不动的众生能离开我而存在。

6.34.40

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ६.३४.४० ॥

敌人的摧毁者啊,我的神圣显现没有穷尽。我所说的,只是显现的概略。

6.34.41

यद्यद्विभूतितत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ॥ ६.३४.४१ ॥

凡具有显现之力、光荣或威力的存在,你要知道,它们都源自我光辉的一部分。

6.34.42

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ६.३४.४२ ॥

或者,阿周那啊,你何必知道这么多?我以一个部分支撑着整个世界而安住。